अथर्ववेदः/काण्डं २०/सूक्तम् ०७०

विकिस्रोतः तः
← सूक्तं २०.०६९ अथर्ववेदः - काण्डं २०
सूक्तं २०.०७०
मधुच्छन्दाः।
सूक्तं २०.०७१ →
दे. १-३ इन्द्रः मरुतश्च, २,४,५ मरुतः, ६-२० इन्द्रः। गायत्री।

वीलु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।
अविन्द उस्रिया अनु ॥१॥
देवयन्तो यथा मतिमछा विदद्वसुं गिरः ।
महामनूषत श्रुतम् ॥२॥
इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
मन्दू समानवर्चसा ॥३॥
अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।
गणैरिन्द्रस्य काम्यैः ॥४॥
अतः परिज्मन्न् आ गहि दिवो वा रोचनादधि ।
समस्मिन्न् ऋञ्जते गिरः ॥५॥
इतो वा सातिमीमहे दिवो वा पार्थिवादधि ।
इन्द्रं महो वा रजसः ॥६॥
इन्द्रमिद्गथिनो बृहदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत ॥७॥
इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।
इन्द्रो वज्री हिरण्ययः ॥८॥
इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
वि गोभिरिन्द्रमैरयत्॥९॥
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।
उग्र उग्राभिरूतिभिः ॥१०॥
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।
युजं वृत्रेषु वज्रिणम् ॥११॥
स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि ।
अस्मभ्यमप्रतिष्कुतः ॥१२॥
तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।
न विन्धे अस्य सुष्टुतिम् ॥१३॥
वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।
ईशानो अप्रतिष्कुतः ॥१४॥
य एकश्चर्षणीनां वसूनामिरज्यति ।
इन्द्रः पञ्च क्षितीनाम् ॥१५॥
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
अस्माकमस्तु केवलः ॥१६॥
एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।
वर्षिष्ठमूतये भर ॥१७॥
नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै ।
त्वोतासो न्यर्वता ॥१८॥
इन्द्र त्वोतासो आ वयं वज्रं घना ददीमहि ।
जयेम सं युधि स्पृधः ॥१९॥
वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ।
सासह्याम पृतन्यतः ॥२०॥