अथर्ववेदः/काण्डं २०/सूक्तम् ०३९

विकिस्रोतः तः
← सूक्तं २०.०३८ अथर्ववेदः - काण्डं २०
सूक्तं २०.०३९
१ मधुच्छन्दा, २-५ गोषूक्त्यश्वसूक्तिनौ।
सूक्तं २०.०४० →
दे. इन्द्रः। गायत्री।

इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
अस्माकमस्तु केवलः ॥१॥
व्यन्तरिक्षमतिरन् मदे सोमस्य रोचना ।
इन्द्रो यदभिनद्वलम् ॥२॥
उद्गा आजदङ्गिरोभ्य आविष्कृण्वन् गुहा सतीः ।
अर्वाञ्चं नुनुदे वलम् ॥३॥
इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च ।
स्थिराणि न पराणुदे ॥४॥
अपामूर्मिर्मदन्न् इव स्तोम इन्द्राजिरायते ।
वि ते मदा अराजिषुः ॥५॥