अथर्ववेदः/काण्डं २०/सूक्तम् ०३८

विकिस्रोतः तः
← सूक्तं २०.०३७ अथर्ववेदः - काण्डं २०
सूक्तं २०.०३८
१-३ इरिम्बिठिः, ४-६ मधुच्छन्दा।
सूक्तं २०.०३९ →
दे. इन्द्रः। गायत्री।

आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
एदं बर्हिः सदो मम ॥१॥
आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
उप ब्रह्माणि नः शृणु ॥२॥
ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।
सुतावन्तो हवामहे ॥३॥
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत ॥४॥
इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।
इन्द्रो वज्री हिरण्ययः ॥५॥
इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
वि गोभिरद्रिमैरयत्॥६॥