अथर्ववेदः/काण्डं २०/सूक्तम् ०३३

विकिस्रोतः तः
← सूक्तं २०.०३२ अथर्ववेदः - काण्डं २०
सूक्तं २०.०३३
अष्टकः।
सूक्तं २०.०३४ →
दे. इन्द्रः। त्रिष्टुप्।

अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व ।
मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहः ॥१॥
प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।
इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥२॥
ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः ।
प्रजावदिन्द्र मंसो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥३॥


[सम्पाद्यताम्]

टिप्पणी