अथर्ववेदः/काण्डं २०/सूक्तम् ०३१

विकिस्रोतः तः
← सूक्तं २०.०३० अथर्ववेदः - काण्डं २०
सूक्तं २०.०३१
वरुः सर्वहरिर्वा।
सूक्तं २०.०३२ →
दे.हरिः (इन्द्रः)। जगती

ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी ।
पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥१॥
अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन् हरयो हरी तुरा ।
अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥२॥
हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत ।
अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥३॥
श्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः ।
प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥४॥
उत स्म सद्न हर्यतस्य पस्त्योरत्यो न वाजं हरिवामचिक्रदत्।
मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतस्चिदा ॥५

[सम्पाद्यताम्]

टिप्पणी