सामग्री पर जाएँ

अथर्ववेदः/काण्डं २०/सूक्तम् ०२९

विकिस्रोतः तः
← सूक्तं २०.०२८ अथर्ववेदः - काण्डं २०
सूक्तं २०.०२९
गोषूक्त्यश्वसूक्तिनौ।
सूक्तं २०.०३० →
दे. इन्द्रः। गायत्री।

त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः ।
स्तोतॄणामुत भद्रकृत्॥१॥
इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः ।
उप यज्ञं सुराधसम् ॥२॥
अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः ।
विश्वा यदजय स्पृधः ॥३॥
मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः ।
अव दस्यूंरधूनुथाः ॥४॥
असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः ।
सोमपा उत्तरो भवन् ॥५॥