अथर्ववेदः/काण्डं २०/सूक्तम् ०२९
दिखावट
← सूक्तं २०.०२८ | अथर्ववेदः - काण्डं २० सूक्तं २०.०२९ गोषूक्त्यश्वसूक्तिनौ। |
सूक्तं २०.०३० → |
दे. इन्द्रः। गायत्री। |
त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः ।
स्तोतॄणामुत भद्रकृत्॥१॥
इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः ।
उप यज्ञं सुराधसम् ॥२॥
अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः ।
विश्वा यदजय स्पृधः ॥३॥
मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः ।
अव दस्यूंरधूनुथाः ॥४॥
असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः ।
सोमपा उत्तरो भवन् ॥५॥