अथर्ववेदः/काण्डं २०/सूक्तम् ०२७

विकिस्रोतः तः
← सूक्तं २०.०२६ अथर्ववेदः - काण्डं २०
सूक्तं २०.०२७
गोषूक्त्यश्वसूक्तिना।
सूक्तं २०.०२८ →
दे. इन्द्रः। गायत्री।

यदिन्द्राहं यथा त्वमीशीय वस्व एक इत्।
स्तोता मे गोषखा स्यात्॥१॥
शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे ।
यदहं गोपतिः स्याम् ॥२॥
धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते ।
गामश्वं पिप्युषी दुहे ॥३॥
न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः ।
यद्दित्ससि स्तुतो मघम् ॥४॥
यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत्।
चक्राण ओपशं दिवि ॥५॥
वावृधानस्य ते वयं विश्वा धनानि जिग्युषः ।
ऊतिमिन्द्रा वृणीमहे ॥६॥