अथर्ववेदः/काण्डं २०/सूक्तम् ०२६

विकिस्रोतः तः
← सूक्तं २०.०२५ अथर्ववेदः - काण्डं २०
सूक्तं २०.०२६
१-३ शुनःशेपः, ४-६ मधुच्छन्दाः।
सूक्तं २०.०२७ →
दे. इन्द्रः। गायत्री।

योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
सखाय इन्द्रमूतये ॥१॥
आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः ।
वाजेभिरुप नो हवम् ॥२॥
अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् ।
यं ते पूर्वं पिता हुवे ॥३॥
युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
रोचन्ते रोचना दिवि ॥४॥
युञ्जन्ति अस्य काम्या हरी विपक्षसा रथे ।
शोणा धृष्णू नृवाहसा ॥५॥
केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।
समुषद्भिरजायथाः ॥६॥