अथर्ववेदः/काण्डं २०/सूक्तम् ००९

विकिस्रोतः तः
← सूक्तं २०.००८ अथर्ववेदः - काण्डं २०
सूक्तं २०.००९
१-२ नोधाः, ३-४ मेध्यातिथिः।
सूक्तं २०.०१० →
दे. इन्द्र)। १-२ त्रिष्टुप्, ३-४ प्रगाथः( बृहती-सतोबृहती)

दे.

तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥१॥
द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् ।
क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥२॥
तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।
येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥३॥
येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः ।
सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥४॥