सामग्री पर जाएँ

अथर्ववेदः/काण्डं १/सूक्तम् २४

विकिस्रोतः तः
← सूक्तं १.२३ अथर्ववेदः - काण्डं १
सूक्तं १.२४
ब्रह्मा
सूक्तं १.२५ →
दे. आसुरी वनस्पतिः। अनुष्टुप्, २ निचृत्पथ्यापङ्क्तिः

सुपर्णो जातः प्रथमस्तस्य त्वं पित्तमासिथ ।
तदासुरी युधा जिता रूपं चक्रे वनस्पतीन् ॥१॥
आसुरी चक्रे प्रथमेदं किलासभेषजमिदं किलासनाशनम् ।
अनीनशत्किलासं सरूपामकरत्त्वचम् ॥२॥
सरूपा नाम ते माता सरूपो नाम ते पिता ।
सरूपकृत्त्वमोषधे सा सरूपमिदं कृधि ॥३॥
श्यामा सरूपंकरणी पृथिव्या अध्युद्भृता ।
इदमू षु प्र साधय पुना रूपाणि कल्पय ॥४॥


सायणभाष्यम्

‘सुपर्णो जातः' इति सूक्तस्य पूर्वसूक्तेन सह उक्तो विनियोगः ।


सुपर्णो जातः प्रथमस्तस्य त्वं पित्तमासिथ ।

तदासुरी युधा जिता रूपं चक्रे वनस्पतीन् ॥१॥

सुऽपर्णः । जातः । प्रथमः । तस्य । त्वम् । पित्तम् । आसिथ ।

तत् । आसुरी । युधा । जिता । रूपम् । चक्रे । वनस्पतीन् ॥ १॥

अस्य औषधस्य वीर्यातिशयं प्रकटयितुम् आख्यायिकया उत्पत्तिम् आह । सुपर्णः शोभनपक्षोपेतो गरुत्मान् । बहुव्रीहौ समासे 'नञ्सुभ्याम्' (पा ६,२,१७२) इति उत्तरपदान्तोदात्तत्वम् । प्रथमः आदिभूतः सन् जातः उत्पन्नः । हे नील्याद्योषधे त्वं तस्य गरुत्मतः पित्तम् शरीरगतः पित्ताख्यो दोषः आसिथ पूर्वं बभूविथ । अस्तेर्लिटि 'छन्दस्युभयथा' (पा ३,४,११७) इति लिटः सार्वधातुकसंज्ञायाम् 'अस्तेर्भूः' (पा २,४,५२) इति भूभावाभावः । आर्धधातुकसंज्ञाया अपि सद्भावाद् इडागमश्च । तत् तथाविधं पित्तम् आसुरी असुराणां माया काचन स्त्री । 'मायायामण्' (पा ४,४,१२४) इति अण्प्रत्ययः । 'टिड्ढाणञ्' (पा ४,१,१५) इति ङीप् । सा युधा युद्धेन । युध संप्रहारे । 'क्विप् च' (पा ३,२,७६) इति क्विप् । सुपर्णेन सह संग्रामं कृत्वा जिता जितवती । जि जये । अस्मात् कर्तरि क्तः । जयेन लब्धं तत् पित्तं रूपं चक्रे ओषध्यात्मना सेव्यम् आकारम् अकार्षीत् । तदेव रूपम् आह -- वनस्पतीन् नील्यादीन् । एतेषां नील्यादीनां सुपर्णपित्तकार्यत्वरूपप्रतिपादनेन अमोघवीर्यत्वम् उक्तं भवति।


आसुरी चक्रे प्रथमेदं किलासभेषजमिदं किलासनाशनम् ।

अनीनशत्किलासं सरूपामकरत्त्वचम् ॥२॥

आसुरी । चक्रे । प्रथमा । इदम् । किलासऽभेषजम् । इदम् । किलासऽनाशनम् ।

अनीनशत् । किलासम् । सऽरूपाम् । अकरत् । त्वचम् ॥२॥

आसुरी पूर्वमन्त्रोक्ता असुरमायारूपा स्त्री प्रथमा श्वित्रचिकित्सकानाम् आदिभूता सती इदम् सुपर्णपित्तेन निर्मितं नील्यादिकं किलासभेषजम् किलासस्य श्वित्रस्य निवर्तकम् औषधं चक्रे कृतवती । अतः इदम् नील्यादिकम् इदानीमपि लोके किलासनाशनम् किलासस्य रोगस्य निवर्तकं भवति । नश अदर्शने। ‘कृत्यल्युटो बहुलम्' (पा ३,३,११३) इति कर्तरि ल्युट् । तद् नील्याद्यौषधं प्रयुज्यमानं सत् किलासम् श्वित्ररोगम् अनीनशत् नाशयति स्म । नशेर्ण्यन्तात् लुङि चङि रूपम् । तथा त्वचम् त्वग्धातुं श्वित्रदूषितं सरूपाम् समानरूपाम् । 'ज्योतिर्जनपद' (पा ६,३,८५) इत्यादिना समानशब्दस्य सभावः। श्वित्ररहितत्वचा समानवर्णाम् अकरत् अकार्षीत् । डुकृञ् करणे। अस्मात् लुङि 'कृमृदृरुहिभ्यश्छन्दसि' (पा ३,१,५९) इति च्लेः अङादेशः । 'ऋदृशोऽङि गुणः' (पा ७,४,१६) इति गुणः।


सरूपा नाम ते माता सरूपो नाम ते पिता ।

सरूपकृत्त्वमोषधे सा सरूपमिदं कृधि ॥३॥

सऽरूपा । नाम । ते। माता । सऽरूपः । नाम । ते। पिता।

सरूपऽकृत् । त्वम् । ओषधे । सा। सऽरूपम् । इदम् । कृधि ॥ ३ ॥

हे ओषधे ते तव माता जननी भूमिः सरूपा त्वया समानरूपा कृष्णवर्णैव । तथा ते तव पिता द्यौः । द्यौः पिता पृथिवी माता' (तैब्रा ३,७,५,४) इति हि निगमः । बीजविशेषो वा पितृशब्देन विवक्षितः। सोपि सरूपः समानवर्णः । उभयत्रापि नामशब्दः प्रसिद्धपरः । हे ओषधे नील्यादिरूपे त्वम् सरूपकृत् । स्वसंसृष्टं पदार्थम् आत्मना समानवर्णं करोति सा सरूपकृत् । तादृश्यसि । करोतेः 'क्विप् च' (पा ३,२,७६) इति क्विप् । सा समानरूपमातापितृजाता त्वम् इदम् श्वित्ररोगदूषितम् अङ्गं सरूपं कृधि त्वया समानवर्णं कुरु । करोतेर्लोटि 'श्रुशृणुपॄकृवृभ्यश्छन्दसि' (पा ६, ४, १०२) इति हेर्धिरादेशः।


श्यामा सरूपंकरणी पृथिव्या अध्युद्भृता ।

इदमू षु प्र साधय पुना रूपाणि कल्पय ॥४॥

श्यामा । सरूपम्ऽकरणी । पृथिव्याः । अधि । उत्ऽभृता ।

इदम् । ऊं इति । सु । प्र । साधय । पुनः । रूपाणि । कल्पय ॥ ४ ॥

श्यामा श्यामवर्णा सरूपंकरणी असरूपं सरूपं क्रियते अनयेति विगृह्य उपपदान्त न्तरेपि 'आढ्यसुभग' (पा ३,२,५६) इत्यादिना व्यत्ययेन कृञः करणे ख्युन् । 'खित्यनव्ययस्य' (पा ६,३,६६) इति पूर्वपदस्य मुमागमः। यद्वा सरूपं क्रियते अनयेति 'करणाधिकरणयोश्च' (पा ३,३,११७ ) इति कृञः करणे ल्युट् । पूर्वपदे सुपो लुगभावश्छान्दसः। उभयत्रापि 'टिड्ढाणञ्' (पा ४,१,१५) इति ङीप् । तादृशी त्वम् पृथिव्या अधि भूमेरुपरि उद्भृता आसुर्या मायया उत्पादिता । अतः कारणात् हे ओषधे त्वम् इदम् किलासाक्रान्तम् अङ्गं सु प्र साधय सुष्ठु रोगविनिर्मुक्तं कुरु । उशब्दः पादपूरणः । ‘पदपूरणास्ते मिताक्षरेष्वनर्थकाः कमीमिदु' इति हि यास्कः (१, ९)। तथा रूपाणि व्याधिसंभवात् पूर्वम् अवस्थितानि पुनः व्याधिनिबर्हणानन्तरमपि कल्पय संपादय । कृपू सामर्थ्ये । अस्माद् णिच् । 'कृपो रो लः' (पा ८२,१८ ) इति लत्वम् । पुनरिति । रेफस्य ‘रो रि' (पा ८,३,१४) इति लोपे कृते 'ढ्रलोपे पूर्वस्य दीर्घोऽणः' (पा ६, ३, १११ ) इति दीर्घः।

इति पञ्चमेनुवाके तृतीयं सूक्तम् ।