अथर्ववेदः/काण्डं १/सूक्तम् २३
← सूक्तं १.२२ | अथर्ववेदः - काण्डं १ सूक्तं १.२३ अथर्वा |
सूक्तं १.२४ → |
दे. वनस्पतिः (असिक्निः)। अनुष्टुप्। |
नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च ।
इदं रजनि रजय किलासं पलितं च यत्॥१॥
किलासं च पलितं च निरितो नाशया पृषत्।
आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय ॥२॥
असितं ते प्रलयनमास्थानमसितं तव ।
असिक्नी अस्योषधे निरितो नाशया पृषत्॥३॥
अस्थिजस्य किलासस्य तनूजस्य च यत्त्वचि ।
दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतमनीनशम् ॥४॥
सायणभाष्यम्
'नक्तंजाता' 'सुपर्णो जातः' इति सूक्तद्वयेन श्वेतकुष्ठापनोदनाय भृङ्गराजहरिद्रेन्द्रवारुणीनीलिकाः पिष्ट्वा शुष्कगोमयेण श्वित्रप्रदेशम् आलोहितदर्शनं प्रघृष्य लेपयेत् । पलितनाशनेपि पलितानि आच्छिद्य सूक्तद्वयेन पूर्ववद् विलिम्पेत् । उक्तरोगद्वयशान्तये अनेनैव सूक्तद्वयेन आज्यहोमादीनि मारुतकर्माणि च वृष्टिकर्मोक्तवत् कुर्यात् सूत्रितं च -- " 'नक्तंजाता' ( अ १,२३ ) 'सुपर्णो जातः' (अ १,२४) इति मन्त्रोक्तं शकृता आलोहितं प्रवृष्य आलिम्पति । 'पलितान्याच्छिद्य । मारुतान्यपिहितः” ( कौसू २६,२२-२४ ) इति।
नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च ।
इदं रजनि रजय किलासं पलितं च यत्॥१॥
नक्तम्ऽजाता । असि । ओषधे । रामे । कृष्णे । असिक्नि । च ।
इदम् । रजनि । रजय । किलासम् । पलितम् । च । यत् ॥१॥
हे ओषधे । ओषः फलपाकः अस्यां धीयत इति ओषधिः । डुधाञ् धारणपोषणयोः । तस्मात् 'कर्मण्यधिकरणे च' (पा ३, ३, ९३) इति अधिकरणे किप्रत्ययः । ततस्तत्पुरुषसमासे कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तत्वे प्राप्ते दासीभारादिषु पाठात् पूर्वपदप्रकृतिस्वरत्वम् । पूर्वपदं च घञन्तत्वाद् आद्युदात्तम् । अत्र तु संबुद्ध्यन्तत्वाद् 'आमन्त्रितस्य च' (पा ८, १, १९) इति आष्टमिकं सर्वानुदात्तत्वमेव । हे ओषधे हरिद्राख्ये त्वं नक्तं रात्रौ जाता उत्पन्ना असि भवसि । अतस्त्वं श्वैत्यनिवर्तनेन कार्ष्ण्यम् आपादयितुं शक्ता भवसीत्यर्थः । तथा हे रामे । व्याधितो जनः अनया ओषध्या रमत इति रामा भृङ्गराजाख्या ओषधिः। रमु क्रीडायाम् । अस्मात् करणे घञ् । 'कर्षात्वतो घञोन्त उदात्तः' (पा ६, १, १५९) इत्यन्तोदात्तत्वे प्राप्ते अस्य आमन्त्रितस्य पादादित्वेन आष्टमिकस्य सर्वानुदात्तस्य अप्राप्तेः 'आमन्त्रितस्य च' (पा ६,१,१९८) इति षाष्ठिकम् आद्युदात्तत्वम् । तथा हे कृष्णे कृष्णवर्णे कृष्णवर्णापादिके वा इन्द्रवारुणि, हे असिक्नि असितवर्णे असितवर्णापादिके वा नीलि। सर्वसमुच्चयार्थश्चकारः । असितशब्दात् 'वर्णादनुदात्तात्तोपधात्तो नः' (पा ४,१,३९) इति प्राप्तयोर्ङीब्नकारयोः 'असितपलितयोः प्रतिषेधो वक्तव्यः' (पावा ४,१,३९) इति प्रतिषेधे 'छन्दसि क्नम् एक इच्छन्ति' (पावा ४,१,३९) इति वचनात् ङीप् । तत्संनियोगेन तकारस्य क्नादेशः । कृष्णे असिक्नि इत्यनयोः 'आमन्त्रितं पूर्वमविद्यमानवत्' (पा ८, १,७२) इति पूर्वपूर्वामन्त्रितस्य अविद्यमानवद्भावेन पादादित्वात् षाष्ठिकम् आद्युदात्तत्वमेव । न च 'नामन्त्रिते समानाधिकरणे सामान्यवचनम्' (पा ८,१,७३) इति अविद्यमानवद्भावनिषेधः। भिन्नार्थवृत्तित्वेन व्याख्यातत्वात् । पूर्वम् ओषधिशब्देन निर्दिष्टाया हरिद्राया जननक्रियासंबन्धित्वेन कुण्ठितशक्तित्वात् रञ्जनक्रियायामपि संबन्धं दर्शयितुं पुनराह -- रजनीति । यद्वा अत्र निर्दिष्टानां रामादीनां चतसृणाम् ओषधीनामपि उत्पत्तिरुच्यते -- नक्तंजातास्योषध इति । हे ओषधे रामादिरूपे त्वम् नक्तंजातासि । इत्यतो न पुनरुक्तिशङ्कावकाशः । हे रजनि । रञ्जयति स्वसंसृष्टं वस्त्रादिकम् अर्थम् इति रजनी । रञ्ज रागे । कर्तरि ल्युट् । ‘रजकरजनरजःसूपसंख्यानम्' (पावा ६, ४, २४) इति उपधानकारलोपः । टित्त्वात् ङीप् । पदात् परत्वाद् 'आमन्त्रितस्य च' (पा ८,१,१९) इति आष्टमिकं सर्वानुदात्तत्वम् । हे रामाद्योषधे त्वम् इदम् वक्ष्यमाणम् अङ्गं रजय श्वित्रादिदोषनिबर्हणेन स्वकीयं रागं संश्लेषय । अत्र रागापादिकानाम् ओषधीनां बहुत्वेपि प्रत्येकापेक्षया एकवचनम् । रञ्ज रागे । अस्मात् णिचि 'रञ्जेर्णौ मृगरमण उपसंख्यानम्' (पावा ६,४,२४) इति विहितो नलोपश्छान्दसत्वाद् अत्रापि भवति । 'आमन्त्रितं पूर्वमविद्यमानवत्' (पा ८,१,७२) इति रजनिशब्दस्य अविद्यमानवद्भावेपि इदंशब्दापेक्षया 'तिङ्ङतिङः' (पा ८,१,२८) इति निघातः । तदेवाङ्गम् आह -- *[किलासं] किलासः[१] कुष्ठरोगः तद्युक्तम् अङ्गम् तथा पलितम् जरावस्थाप्राप्तं केशानां शौक्ल्यं तद्युक्तम् अङ्गं च । उभयत्रापि अर्शआदित्वाद् अच् । ईदृशं यद् अङ्गम् अस्ति इदम् इति पूर्वेण संबन्धः ॥
किलासं च पलितं च निरितो नाशया पृषत्।
आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय ॥२॥
किलासम् । च । पलितम् । च । निः । इतः । नाशय । पृषत् ।
आ । त्वा । स्वः । विशताम् । वर्णः । परो । शुक्लान् । पातय ॥ २ ॥
किलासम् पलितम् उक्तलक्षणम् । परस्परसमुच्चयार्थौ चकारौ । इतः अस्मात् व्याधिदूषितात् शरीरात् पृथक् पृथक्कृत्य हे ओषधे त्वं निर्णाशय निरवशेषं घातय। 'व्यवहिताश्च' (पा १,४,८२ ) इति निसो व्यवहितक्रियया संबन्धः। अनन्तरम् हे रुग्ण त्वा त्वां स्वः स्वकीयः प्रागवस्थितो वर्णः लौहित्यादिरूपः आ विशताम् प्रविशताम् । शौक्ल्यस्य पुनरुद्भवपरिहाराय आह -- शुक्लानि शरीरकेशगतशुक्लरूपाणि परा पातय पराचीनं दूरं प्रेरय। यथा पुनरेनं पुरुषं न स्पृशन्ति तथा कुरु इत्यर्थः।
असितं ते प्रलयनमास्थानमसितं तव ।
असिक्नी अस्योषधे निरितो नाशया पृषत्॥३॥
असितम् । ते । प्रऽलयनम् । आऽस्थानम् । असितम् । तव ।
असिक्नी । असि । ओषधे । निः । इतः। नाशय । पृषत् ॥ ३ ॥
अनया नीलीमेव अवयुत्य प्रार्थयते – हे नीलि ते तव प्रलयनम् । प्रकर्षेण लीयते संश्लिष्यते अत्रेति प्रलयनम् उत्पत्तिस्थानम् । असितम् कृष्णवर्णं भवति । तथा तव आस्थानम् । पुरुषैः आनीता आ समन्तात् तिष्ठत्यत्रेति आस्थानम् प्रक्षेपणभाजनादिरूपम् । असितम् कृष्णं भवति । प्रपूर्वात् लीङ् श्लेषणे इत्यस्मात् , आङ्पूर्वात् तिष्ठतेश्च 'करणाधिकरणयोश्च' (पा ३,३,११७) इति अधिकरणे ल्युटि ‘लिति' (पा ६,१,१९३) इति प्रत्ययात् पूर्वस्य उदात्तत्वम् । कुत एतद् इत्यत आह--हे ओषधे नीलि त्वम् असिक्नी असितवर्णा असि भवसि । यतस्तव अयं स्वभावः अतः इतः अस्मात् श्वित्रादिरोगदूषिताद् अङ्गात् आलेपादिना त्वत्संबद्धात् पृथक् किलासं पलितं च पृथक्कृत्य निर्णाशय निःशेषेण विनष्टं कुरु।
अस्थिजस्य किलासस्य तनूजस्य च यत्त्वचि ।
दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतमनीनशम् ॥४॥
अस्थिऽजस्य । किलासस्य । तनूऽजस्य । च । यत् । त्वचि ।
दूष्या । कृतस्य । ब्रह्मणा । लक्ष्म । श्वेतम् । अनीनशम् ॥ ४ ॥
अनया अस्थ्यादिधातुगतस्य उत्साद्यस्य किलासस्यैव निवृत्तिम् आह--अस्थिजस्य तथा तनूजस्य । अत्र तनूशब्देन त्वगस्थ्नोर्मध्यवर्ती मांसधातुः उच्यते। तस्माद् यज्जातं तस्य । जनी प्रादुर्भावे । अस्माद् अस्थिशब्दोपपदात् तनूशब्दोपपदाच्च 'पञ्चम्यामजातौ' (पा ३,२,९८ ) इति डप्रत्ययः । 'टेः' (पा ६,४,१४३ ) इति टिलोपः। कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तत्वम् । तथा त्वचि त्वग्धातौ यद् वर्तमानं तस्य सर्वस्य किलासस्य कुष्ठव्याधेः । तथा दूष्या। दूषयति प्राणिनं हिनस्तीति दूषिः शत्रूत्पादिता कृत्या। तया कृतस्य उत्पादितस्य च किलासस्य लक्ष्म लक्ष्मभूतं चिह्नं श्वेतम् शरीरावयवगतं श्वैत्यम् । ब्रह्मणा अनेन प्रयुज्यमानेन मन्त्रेण अनीनशम् नाशितवान् अस्मि । नश अदर्शने । अस्मात् ण्यन्तात् लुङि ‘णिश्रिद्रुस्रुभ्यः कर्तरि चङ्' ( पा ३, १,४८ ) इति च्लेश्चङ् । 'चङि' ( पा ६,१,११) इति द्विर्वचने ‘सन्वल्लघुनि चङ्परेऽनग्लोपे' (पा ७,४,९३ ) इति सन्वद्भावः । 'सन्यतः' (पा ७,४,७९ ) इति अभ्यासस्य इत्वम् । 'दीर्घो लघोः' ( पा ७,४,९४ ) इति दीर्घः। 'तिङ्ङतिङः' (पा ८,१,२८ ) इति निघातः।
इति पञ्चमेनुवाके द्वितीयं सूक्तम् ॥