अथर्ववेदः/काण्डं १९/सूक्तम् ६४

विकिस्रोतः तः
← सूक्तं १९.६३ अथर्ववेदः - काण्डं १९
सूक्तं १९.६४
ब्रह्मा
सूक्तं १९.६५ →
दे. अग्निः । अनुष्टुप्

अग्ने समिधमाहार्षं बृहते जातवेदसे ।
स मे श्रद्धां च मेधां च जातवेदाः प्र यच्छतु ॥१॥
इध्मेन त्वा जातवेदः समिधा वर्धयामसि ।
तथा त्वमस्मान् वर्धय प्रजया च धनेन च ॥२॥
यदग्ने यानि कानि चिदा ते दारूणि दध्मसि ।
सर्वं तदस्तु मे शिवं तज्जुषस्व यविष्ठ्य ॥३॥
एतास्ते अग्ने समिधस्त्वमिद्धः समिद्भव ।
आयुरस्मासु धेह्यमृतत्वमाचार्याय ॥४॥