अथर्ववेदः/काण्डं १९/सूक्तम् ६३

विकिस्रोतः तः
← सूक्तं १९.६२ अथर्ववेदः - काण्डं १९
सूक्तं १९.६३
ब्रह्मा
सूक्तं १९.६४ →
दे. ब्रह्मणस्पतिः। विराडुपरिष्टाद्बृहती।

उत्तिष्ठ ब्रह्मणस्पते देवान् यज्ञेन बोधय ।
आयुः प्राणं प्रजां पशून् कीर्तिं यजमानं च वर्धय ॥१॥