अथर्ववेदः/काण्डं १९/सूक्तम् ६०

विकिस्रोतः तः
← सूक्तं १९.५९ अथर्ववेदः - काण्डं १९
सूक्तं १९.६०
ब्रह्मा
सूक्तं १९.६१ →
दे. वाक्, अङ्गानि च। १ पथ्याबृहती, २ ककुम्मती पुरउष्णिक्।

वाङ्म आसन् नसोः प्राणश्चक्षुरक्ष्णोः श्रोत्रं कर्णयोः ।
अपलिताः केशा अशोणा दन्ता बहु बाह्वोर्बलम् ॥१॥
ऊर्वोरोजो जङ्घयोर्जवः पादयोः ।
प्रतिष्ठा अरिष्टानि मे सर्वात्मानिभृष्टः ॥२॥