अथर्ववेदः/काण्डं १९/सूक्तम् ५९

विकिस्रोतः तः
← सूक्तं १९.५८ अथर्ववेदः - काण्डं १९
सूक्तं १९.५९
ब्रह्मा
सूक्तं १९.६० →
दे. अग्निः। त्रिष्टुप्, १ गायत्री।

त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा ।
त्वं यज्ञेष्वीड्यः ॥१॥
यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।
अग्निष्टद्विश्वादा पृणातु विद्वान्त्सोमस्य यो ब्राह्मणामाविवेश ॥२॥
आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् ।
अग्निर्विद्वान्त्स यजात्स इद्धोता सोऽध्वरान्त्स ऋतून् कल्पयाति ॥३॥