अथर्ववेदः/काण्डं १९/सूक्तम् ५०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १९.४९ अथर्ववेदः - काण्डं १९
सूक्तं १९.५०
गोपथः
सूक्तं १९.५१ →
दे. रात्रिः । अनुष्टुप्

अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु ।
अक्षौ वृकस्य निर्जह्यास्तेन तं द्रुपदे जहि ॥१॥
ये ते रात्र्यनड्वाहस्तीक्ष्णशृङ्गाः स्वाशवः ।
तेभिर्नो अद्य पारयाति दुर्गाणि विश्वहा ॥२॥
रात्रिंरात्रिमरिष्यन्तस्तरेम तन्वा वयम् ।
गम्भीरमप्लवा इव न तरेयुररातयः ॥३॥
यथा शाम्याकः प्रपतन्न् अपवान् नानुविद्यते ।
एवा रात्रि प्र पातय यो अस्मामभ्यघायति ॥४॥
अप स्तेनं वासयो गोअजमुत तस्करम् ।
अथो यो अर्वतः शिरोऽभिधाय निनीषति ॥५॥
यदद्य रात्रि सुभगे विभजन्त्ययो वसु ।
यदेतदस्मान् भोजय यथेदन्यान् उपायसि ॥६॥
उषसे नः परि देहि सर्वान् रात्र्यनागसः ।
उषा नो अह्ने आ भजादहस्तुभ्यं विभावरि ॥७॥