अथर्ववेदः/काण्डं १९/सूक्तम् ४९

विकिस्रोतः तः
← सूक्तं १९.४८ अथर्ववेदः - काण्डं १९
सूक्तं १९.४९
गोपथः, भरद्वाजश्च
सूक्तं १९.५० →
दे. रात्रिः । अनुष्टुप्, १-५, ८ त्रिष्टुप्, ६ प्रस्तारपङ्क्तिः, ७ पथ्यापङ्क्तिः, १० त्र्यवसाना षट्पदा जगती।

इषिरा योषा युवतिर्दमूना रात्री देवस्य सवितुर्भगस्य ।
अश्वक्षभा सुहवा संभृतश्रीरा पप्रौ द्यावापृथिवी महित्वा ॥१॥
अति विश्वान्यरुहद्गम्भिरो वर्षिष्ठमरुहन्त श्रविष्ठाः ।
उशती रात्र्यनु सा भद्राभि तिष्ठते मित्र इव स्वधाभिः ॥२॥
वर्ये वन्दे सुभगे सुजात आजगन् रात्रि सुमना इह स्याम् ।
अस्मांस्त्रायस्व नर्याणि जाता अथो यानि गव्यानि पुष्ट्या ॥३॥
सिंहस्य रात्र्युशती पींषस्य व्याघ्रस्य द्वीपिनो वर्च आ ददे ।
अश्वस्य ब्रध्नं पुरुषस्य मायुं पुरु रूपाणि कृणुषे विभाती ॥४॥
शिवां रात्रिमनुसूर्यं च हिमस्य माता सुहवा नो अस्तु ।
अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु ॥५॥
स्तोमस्य नो विभावरि रात्रि राजेव जोषसे ।
असाम सर्ववीरा भवाम सर्ववेदसो व्युच्छन्तीरनूषसः ॥६॥
शम्या ह नाम दधिषे मम दिप्सन्ति ये धना ।
रात्रीहि तान् असुतपा य स्तेनो न विद्यते यत्पुनर्न विद्यते ॥७॥
भद्रासि रात्रि चमसो न विष्टो विष्वङ्गोरूपं युवतिर्बिभर्षि ।
चक्षुष्मती मे उशती वपूम्षि प्रति त्वं दिव्या न क्षाममुक्थाः ॥८॥
यो अद्य स्तेन आयत्यघायुर्मर्त्यो रिपुः ।
रात्री तस्य प्रतीत्य प्र ग्रीवाः प्र शिरो हनत्॥९॥
प्र पादौ न यथायति प्र हस्तौ न यथाशिषत्।
यो मलिम्लुरुपायति स संपिष्टो अपायति ।
अपायति स्वपायति शुष्के स्थाणावपायति ॥१०॥