अथर्ववेदः/काण्डं १२/सूक्तम् ०७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १२.०६ अथर्ववेदः - काण्डं १२
सूक्तं १२.७
(कश्यपः?) अथर्वाचार्यः
सूक्तं १२.०८ →
दे. ब्रह्मगवी। (सप्त पर्यायाः)

सैषा भीमा ब्रह्मगव्यघविषा साक्षात्कृत्या कूल्बजमावृता ॥१२॥
सर्वाण्यस्यां घोराणि सर्वे च मृत्यवः ॥१३॥
सर्वाण्यस्यां क्रूराणि सर्वे पुरुषवधाः ॥१४॥
सा ब्रह्मज्यं देवपीयुं ब्रह्मगव्यादीयमाना मृत्योः पद्वीष आ द्यति ॥१५॥
मेनिः शतवधा हि सा ब्रह्मज्यस्य क्षितिर्हि सा ॥१६॥
तस्माद्वै ब्राह्मणानां गौर्दुराधर्षा विजानता ॥१७॥
वज्रो धावन्ती वैश्वानर उद्वीता ॥१८॥
हेतिः शफान् उत्खिदन्ती महादेवोऽपेक्षमाणा ॥१९॥
क्षुरपविरीक्षमाणा वाश्यमानाभि स्फूर्जति ॥२०॥
मृत्युर्हिङ्कृण्वत्युग्रो देवः पुछं पर्यस्यन्ती ॥२१॥
सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती ॥२२॥
मेनिर्दुह्यमाना शीर्षक्तिर्दुग्धा ॥२३॥
सेदिरुपतिष्ठन्ती मिथोयोधः परामृष्टा ॥२४॥
शरव्या मुखेऽपिनह्यमान ऋतिर्हन्यमाना ॥२५॥
अघविषा निपतन्ती तमो निपतिता ॥२६॥
अनुगच्छन्ती प्राणान् उप दासयति ब्रह्मगवी ब्रह्मज्यस्य ॥२७॥ {२६}