अंशुमत्काश्यपागमः/वेदिकालक्षणपटलः ११

विकिस्रोतः तः
← पटलः १० अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः १२ →


अथ वक्ष्ये विशेषेण वेदिका लक्षणं परम् ।

अधिष्ठानोपरिष्ठात्तु स्तंभमूले तु कल्पयेत् ॥ १ ॥


प्रस्तरस्योपरिष्टाच्च कर्तव्या वेदिका द्विज ! ।

अध्यर्धदण्डमानं तु कन्यसा वेदिकामधम् ॥ २ ॥


द्विदण्डेन तु मध्यं स्यात् श्रेष्ठतुंगं त्रिदण्डकम् ।

अथवान्य प्रकारेण वेदिकोत्सेधमुच्यते ॥ ३ ॥


चरणोदय षट्सप्तवसुभाग विभाजिते ।

एकांशं वेदिकामानं क्रमाच्छ्रेष्ठान्तराधमम् ॥ ४ ॥


एवं हि चरणायां तु मूले तु वेदिकोदयम् ।

ऊर्ध्वे भूम्यंघ्रि तुंगं तु सप्तभागं विभाजिते ॥ ५ ॥


एकांशं कण्ठहर्म्याणां वेदिकोदयमिष्यते ।

त्रिचतुःपंचभागं तु गलोत्सेधं विभाजिते ॥ ६ ॥


गलमूले तु वेद्युच्चं अंशं श्रेष्ठान्तराधमम् ।

आपेतोत्सेधांशमानं वा गलमूले तु वेदिका ॥ ७ ॥


षडंशे वेदिकोत्सेधं गुणांशं गलमानकम् ।

गलोर्ध्वे कंपमेकांशं एकेनाब्जं प्रकल्पयेत् ॥ ८ ॥


तदूर्ध्वकंपमेकेन कर्तव्यं द्विजसत्तम ! ।

सप्तांष्टांशे तु वेद्युच्चे वेदभूतं क्रमाद्गलम् ॥ ९ ॥


कम्पपद्मं च कम्पं च प्रागिवैव प्रकल्पयेत् ।

कर्णमानेन तन्मूले कंपमेकेन कल्पयेत् ॥ १० ॥


शेषं कर्णोदयं प्रोक्तं तत्कंपरहितं तु वा ।

अध्यर्धांशं तु वा पद्मं तुंगं द्व्यंशमथापि वा ॥ ११ ॥


पद्मशैवलपत्राभा चित्रांगा वेदिका मता ।

सर्वासां वेदिकानां तु गलमंघ्रिविभूषितम् ॥ १२ ॥


कुड्यस्तंभसमं व्यासं नीव्रं च वेदिकांघ्रिणा ।

प्रस्तरोपरिवेदीनां वेशनं शृणु सुव्रत ! ॥ १३ ॥


गर्भभित्तित्रिभागैकं अंघ्रिवेद्यंघ्रिवेशनम् ।

चतुर्भागैकवेशं वा * * * * * * * * ॥ १४ ॥


कुड्यस्तंभस्य बाह्यां तु वेद्यांघ्री बाह्यवेशनम् ।

एवं वान्यप्रकारेण वेदिका विस्तृतं शृणु ॥ १५ ॥


कुड्यपाद्बाह्यमानं तु उभयोः पार्श्वयोरपि ।

षट्सप्ताष्टनवांशं वा दशभागं तु वा भजेत् ॥ १६ ॥


एकांशरहितं शेषं वेदिकायास्तु विस्तरम् ।

युगाश्रवेदिकाकारा नागरे प्रस्तरोपरि ॥ १७ ॥


द्राविडे वेसरे हर्म्ये वस्वश्रं वेदिकाकृतिः ।

अथवा वेसरे हर्म्ये वेदिका वृत्तमेव वा ॥ १८ ॥


अनेकाश्रायताश्रे च गलाश्रा वेदिकाश्रकाः ।

वेदिकालक्षणं प्रोक्तं शृणु जालाकलक्षणम् ॥ १९ ॥


इत्यंशुमान्काश्यपे वेदिकालक्षणपटलः (एकादश) ॥ ११ ॥