अंशुमत्काश्यपागमः/जालकलक्षणपटलः १२
← पटलः ११ | अंशुमत्काश्यपागमः [[लेखकः :|]] |
पटलः १३ → |
अथ वक्ष्ये विशेषेण शृणुजालाकलक्षणम् ।
पादवर्गे गले चैव जालकस्थानमुच्यते ॥ १ ॥
प्रासादेषु महाशालास्वन्तराले च मध्यमे ।
वातायनं प्रकर्तव्यं अनेन विधिना बुधः ॥ २ ॥
योजयेद्वेदिकोर्ध्वे तु जालकं तु द्विजोत्तम ! ।
वेदिकाजालकार्धं तु छेद्यं सर्वविनाशनम् ॥ ३ ॥
तस्माद्यत्नेन वेदिं तु जालकार्धं न छेदयेत् ।
द्विदण्डं कन्यसं व्यासं त्रिदण्डं मध्यमं भवेत् ॥ ४ ॥
चतुर्दण्डविशालं तु उत्तमं परिकीर्तितम् ।
विस्तारसदृशोत्सेधाद् एकदण्ड विवर्धनात् ॥ ५ ॥
विस्तारद्विगुणं यावत् तावद्वैजालकोन्नतम् ।
एषु तुंगविशालेषु यदिष्टं तत्परिग्रहेत् ॥ ६ ॥
स्तम्भव्यासार्धमानं तु घनव्यासांघ्रिकंपयोः ।
विस्तारार्ध घनं व्यासं त्रिचतुर्थांशमेव वा ॥ ७ ॥
मध्ये स्तंभं च रंघ्रं च वर्ज्या जालकमाचरेत् ।
युग्मपादसमायुक्तं युग्मकं पेनमुच्यते ॥ ८ ॥
गोनेत्रं हस्तिनेत्रं च नन्द्यावर्तमृजुंक्रियाम् ।
पुष्पघण्डं रसकण्ठं च जालकं षड्विधं भवेत् ॥ ९ ॥
दीर्घाश्रं कण्ठगच्छिद्रं गोनेत्रमिति संज्ञितम् ।
युगाश्रं कण्ठगच्छिद्रं हस्तिनेत्रमुदाहृतम् ॥ १० ॥
पंचसूत्रं तु यच्छिद्रं प्रदक्षिणवशात्कृतम् ।
नन्द्यावर्तस्य पुष्पाभं नन्द्यावर्तमुदाहृतम् ॥ ११ ॥
आर्जवं संभकं वौद्वौ जालकं तदृजुक्रियम् ।
पुष्पखण्डं च कर्णं च नन्द्यावर्तमिवाकृतिः ॥ १२ ॥
स्तम्भयोगं कवाटं च भित्तिमध्याद्बहिः स्थितम् ।
युग्मायुग्मकवाटं वा घाटनाद्घाटनक्षमम् ॥ १३ ॥
जालकं तु सभादीनां मध्यमानेन कल्पयेत् ।
लोहैद्रुमोत्पलैर्द्रव्यैः वेष्टकाभिस्तु जालकम् ॥ १४ ॥
त्रयोविधं तु यद्द्रव्यं तेन तत्रैव योजयेत् ।
जालकं ह्येवमाख्यातं ततस्तोरणलक्षणम् ॥ १५ ॥
इत्यंशुमान्काश्यपे जालकलक्षणपटलः (द्वादश) ॥ १२ ॥