अंशुमत्काश्यपागमः/लिंगोद्भवमूर्तिलक्षणपटलः ८१

विकिस्रोतः तः
← पटलः ८० अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ८२ →



व्यत्यस्त पादताण्डेश्वराय नमः ॥

अथ वक्ष्ये विशेषेण लिंगोद्भवमतः परम् ।
लिंगाकारस्य मध्ये तु चन्द्रशेखरमूर्तिवत् ॥ १ ॥

नलका पादतलं विप्र ! लिंगारूढसमन्वितम् ।
ब्रह्मा तु हंसरूपेण ऊर्ध्वगं वामपार्श्वके ॥ २ ॥

विष्णुर्वराहरूपेण दक्षिणांशे त्वधोगतम् ।
विष्णुर्दक्षिणपार्श्वे तु वामपार्श्वे पितामहः ॥ ३ ॥

हृदयांजलि संयुक्तौ स्थितौ लिंगं समीक्षितौ ।
रक्तश्यामहिरण्याभं ईशविष्णुपितामहान् ॥ ४ ॥

एवं लिंगोद्भवं ख्यातं वृक्षसंग्रहणं तथा ।


इत्यंशुमान्काश्यपे लिंगोद्भवमूर्तिलक्षणपटलः (एकाशीतितमः) ॥ ८१ ॥