अंशुमत्काश्यपागमः/कालहारिमूर्तिलक्षणपटलः ८०

विकिस्रोतः तः
← पटलः ७९ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः ८१ →



अथ वक्ष्ये विशेषेण कालदाहस्य लक्षणम् ।
वसुनन्ददशांशं वा नतमानं द्विजोत्तम ॥ १ ॥

रुद्रभान्वंगुलं वाथ नतमानमथोच्यते ।
ललाटदक्षिणे सव्यनेत्रमध्ये तथैव च ॥ २ ॥

हिक्कामध्यर्धवामे तु वामस्तनाक्ष दक्षिणे ।
नाभिमध्यात्तु वामे तु सूत्रान्तरं यवाष्टकम् ॥ ३ ॥

मेढ्रमूलस्य मध्यात्तु वामे षडंगुलं नयेत् ।
स्थित्ॐघ्रिगुल्फ मध्ये तु पूर्वसूत्रं प्रसारयेत् ॥ ४ ॥

देवस्य दक्षिणं पादं पद्मपीठोपरि स्थितम् ।
प्रथमं नृत्तमूर्तेस्तु दक्षिणस्थितपादवत् ॥ ५ ॥

वामपादं तदुद्धृत्य कुंचितं तलमुद्धृतम् ।
अंगुष्ठमुद्धृतांघ्रेस्तु कालस्य हृदये न्यसेत् ॥ ६ ॥

स दंष्ट्रास्यं त्रिणेत्रं च जटामकुटमण्डितम् ।
चतुर्हस्तसमायुक्तं अष्टहस्तमथापि वा ॥ ७ ॥

दक्षिणे पूर्वहस्तं च शूलं कर्णान्तमुद्धृतम् ।
दक्षिणे परहस्तं तु परशुं वामदं तु वा ॥ ८ ॥

वामे पूर्वकरं नाभिसीमान्तं सूच्यधोमुखम् ।
सूच्यग्रात्पूर्वसूत्रान्तं कलामन्वंगुलं तु वा ॥ ९ ॥

कर्णे शूलधरे हस्ते मणिबन्धान्तरं तु वा ।
वामे त्वपरहस्तं तु विस्मयं परिकल्पयेत् ॥ १० ॥

हिक्कासूत्रसमं टंकं करं तद् द्व्यन्तरं मुखम् ।
उष्णीषान्तं समुद्धृत्य विस्मयेऽनामिकाग्रकम् ॥ ११ ॥

कर्णान्तं मणिबन्धान्तं शूलहस्तसमान्तरम् ।
चतुर्हस्तं समाख्यातं अष्टहस्तमतः शृणु ॥ १२ ॥

शूलं च परशुं वज्रं खड्गं दक्षिणहस्तके ।
विस्मयं खेटकं पाशं सूचिहस्तं च वामके ॥ १३ ॥

विद्रुमस्य निभाकारं सर्वाभरणभूषितम् ।
कालहामूर्तिराख्याता अधस्थात्कालमुच्यते ॥ १४ ॥

महाभयसमायुक्तं स पाशं हृदयेंजलिम् ।
विकीर्णपादौ मां दृष्ट्वा शाययेदूर्ध्ववक्त्रकम् ॥ १५ ॥

कालहामूर्तिराख्याता लिंगोद्भवमतः परम् ।


इत्यंशुमान्काश्यपे कालहारिमूर्तिलक्षणपटलः (अशीतितमः) ॥ ८० ॥