अंशुमत्काश्यपागमः/कम्पद्वारलक्षणपटलः १७

विकिस्रोतः तः
← पटलः १६ अंशुमत्काश्यपागमः
[[लेखकः :|]]
पटलः १८ →

अथ वक्ष्ये विशेषेण कंपद्वारविधिं परम् ।

प्रासादमण्टपादीनां चतुर्दिक्षु विदिक्षु च ॥ १ ॥


तयोर्मध्यान्तराले वा ह्योमाभीष्टं तु यत्र वै ।

तत्रैव कल्पयेत्सम्यक् कंपद्वारं द्विजोत्तम ! ॥ २ ॥


वस्त्रचितकृतं पंक्तिव्यासं यत्तु विशालकम् ।

स्थालादुत्तरसीमान्तं कंपद्वारोदयं भवेत् ॥ ३ ॥


भुवंगं च पतंगं च योगं प्राग्वद्घनं ततम् ।

कृत्वा दृढतरं बध्व योजयेदन्तरंघ्रयः ॥ ४ ॥


योगव्यासनतन्दीर्घं अन्तरांघ्रिं तथा कुरु ।

मूलाग्रयोः शिखेह्येता तारांघ्रिं परिकल्पयेत् ॥ ५ ॥


भुवंगे च पतंगे च छिद्रे युज्याद् दृढीकृतम् ।

चतुः पंच षडष्टौ वा दश द्वादश एव वा ॥ ६ ॥


ममुषोडशसंख्या वा कल्पयेदन्तरांघ्रयः ।

अन्तरायन्तरामत्या गमागमक्षमं विना ॥ ७ ॥


अन्तरांघ्रीन्सुयुंजीयात् स्थापयेद्द्वारयोगवत् ।

योजयेत्तु कवाटं च व्योमै प्रत्येकमेव वा ॥ ८ ॥


कवाटं व्योमद्वयं ग्रासं त्रिव्योमग्रवस एव वा ।

कल्पयेत्सुदृढं द्वारं न चलं हस्तिनापि च ॥ ९ ॥


कंपद्वारं समाख्यातं प्रस्तरं तु ततः शृणु ।


इत्यंशुमान्काश्यपे कंपद्वारलक्षणपटलः (सप्तदश) ॥ १७ ॥