विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १३३

विकिस्रोतः तः
← अध्यायः १३२ विष्णुधर्मोत्तरपुराणम्
अध्यायः १३३
वेदव्यासः
अध्यायः १३४ →

मार्कण्डेय उवाच ।।
इत्युक्ता रम्भया वाक्यं दृष्ट्वा राजानमागतम् ।।
हृष्टा ससाध्वसा देवी बभूवाथ तथोर्वशी ।। १ ।।
अत्याश्चर्यमभूद्दृष्टे राज्ञि तस्याः शुभानने ।।
रोमाञ्चिततनुत्वं च सप्रस्वेदं समाबभौ ।। २ ।।
तामुवाच ततो रम्भा शृणूर्वशि वचो मम ।
नेहागमेऽस्य नृपतेः कार्यमल्पं भविष्यति ।। ३ ।।
राजा सुखासहायोऽयं प्रविष्टो निशि काननम् ।।
प्रच्छन्ने शृणुवस्तावदस्य वाक्यानि भूपतेः ।। ४ ।।
एवमस्त्वित्युवाचाथ रम्भां नारायणात्मजा ।।
मायाच्छन्नशरीरे ते ततश्चाययतुर्नृपम् ।। ५ ।।
राजानं चारुसर्वाङ्गं पप्रच्छ तु तदा सखा ।।
राज्ञो बहुमतो नित्यं गुणवाँश्चातिधार्मिकः ।। ६ ।।
सखोवाच ।।
यतः प्रभृति राजेन्द्र त्रिदिवात्त्वमिहागतः ।।
ततः प्रभृति चास्वस्थो मया दृष्टोऽसि मानद ।।७।।
तदस्वास्थ्यं कामकृतं ज्ञातवानस्मि ते नृप ।।
तन्ममाचक्ष्व ते गुह्यं न चेन्नरवरोत्तम ।। ८ ।।
पुरूरवा उवाच ।।
तव गुह्यं न मे किञ्चित्कदाचिदपि विद्यते ।।
अस्वास्थ्यकारणं सौम्य तव वक्ष्याम्यथात्मनः ।। ९ ।।
नारायणसुता कान्ता रूपेणाप्रतिमा शुभा ।।
उर्वशीनामतः ख्याता मया दृष्टा वराप्सराः।।1.133.१०।।
यतः प्रभृति चार्वङ्गी ततः प्रभृति मे सखे ।।
कामेनालोड्यते चित्तं न च शाम्यति मे तथा ।। ११ ।।
न चोपायं प्रपश्यामि तस्या लाभे द्विजोत्तम ।।
देवतानामपि शुभा दुर्लभा सा वराङ्गना ।। १२ ।।
एवं दुःखपरीतस्य सखे कालो गतो मम ।।
उपभुक्ता मया स्वप्ने साद्य चार्वसितेक्षणा ।। १३ ।।
चन्द्रकान्तगृहे ह्यस्मिन्काममार्गणताडिता ।।
चन्द्रोदये चारुमुखी त्रैलोक्यस्यैकसुन्दरी ।। १४ ।।
विनोदनार्थं हि सखे मनसोऽति मनोहरम् ।।
चन्द्रोदये ततः प्राप्तं चन्द्रकान्तशिलागृहम् ।। १५ ।।
तदेहि त्वस्ति सौम्य प्रविश्य रुचिरं गृहम् ।।
विनोदयामि हृदयं मन्मथेन वशीकृतम् ।। १६ ।।
सखोवाच ।।
यथा दृष्टं त्वया स्वप्ने तथाद्य भविता धुवम् ।।
सापि कामपरीताङ्गी त्वामुपेश्यति भामिनी ।। १७ ।।
मार्कण्डेय उवाच ।।
एवमुक्त्वा विवेशाथ चन्द्रकान्तशिलागृहम् ।।
आसाञ्चक्रे तदा तस्मिन्मदनेन वशीकृतः ।। १८ ।।।
उर्वशी रम्भया सार्धं तच्छ्रुत्वा हर्षमागता ।।
आत्मानं दर्शयामास रम्भापि नृपतेस्तदा ।। १९ ।।
जयेत्युक्त्वा महीनाथं रम्भा कामवशात्तदा ।।।
बभूव पुरतस्तस्य शोभयन्तीव तद्गृहम् ।। 1.133.२०।।
तामुवाच ततो राजा स्वागतं ते वरानने ।।
अलङ्कुरुष्व चार्वङ्गि रत्नासनमिदं शुभम् ।। २१ ।।
रत्नासनोपविष्टायां तदागमनविस्मितः ।।
तदा राजीवरक्ताक्षस्तामुवाच वराननाम् ।।२२।।
शक्रस्य नगरं रम्भे राजते नित्यशस्त्वया ।।
पौर्णमास्या यथा रात्रिः शशाङ्केनेव भामिनि ।। २३ ।।
त्वं सभामण्डनं तस्य सच्छिष्या त्वं च तुम्बुरोः ।।
त्वयाभिभूतास्सकलाः स्त्रियः सुप्ताः सुशोभने ।। २४ ।।
त्वयाभिभूताः सकलाः स्त्रियः स्वर्गे सुशोभने ।।
तव नेत्रसहस्रेण पश्यन्नपि तु पाकहा ।। २५ ।।
सर्वत्र चारुसर्वांगि न तृप्यति शुभानने ।।
तन्ममाचक्ष्व सुभगे इहागमनकारणम् ।। २६ ।।
रम्भोवाच ।।
शृणुष्वावहितो राजन्ममागमनकारणम् ।।
श्रुत्वा तच्च नरेन्द्रेन्द्र कुरुष्व वचनं मम ।। २७ ।।
नारायणसुता देवी तत्र त्रैलोक्यसुन्दरी ।।
उर्वशी नाम चार्वङ्गी भूमिपाल सखी मम ।। २८ ।।
सा त्वां दृष्ट्वा महेन्द्रस्य सदने काममोहिता ।।
न शर्म लभते बाला हाहेति वदती मुहुः ।। २९ ।।
सा त्वदर्थमनंगेन मार्गणैर्भृशपीडिता ।।
लावण्य शेषा संवृत्ता दिनैः कतिपयैः शुभा ।। 1.133.३० ।।
क्षामक्षामकपोला सा त्वत्समर्पितमानसा ।।
मदनेनाभितप्तांगी मानमुत्सृज्य भामिनी ।। ३१ ।।
प्रस्थिता सा मया सार्द्धं तव दर्शनलालसा ।।
अन्तरा नारदेनोक्ता यत्र त्वं प्रस्थिता शुभे ।। ३२ ।।
तत्र त्वया तु वस्तव्यं समयेन वरानने ।।
मेषद्वयं तु पुत्रत्वे यत्त्वया परिकल्पितम् ।। ३३ ।।
तत्तु ते शयनाभ्याशे स्थापयेत्सततं यदि ।।
स राजा चारुसर्वाङ्गि नग्नो नेक्षेत भामिनि ।।३४।।
मैथुनं चाप्यकामाया नासौ ते कर्तुमर्हति ।।
घृताहारा तथा तत्र वस त्वं सुभगे सदा ।। ३५ ।।
एकस्मिन्नप्यतिक्रान्ते समये यदि पार्थिवम् ।।
न त्यक्ष्यसि तदा सौम्ये शिलाभूता भविष्यसि ।। ३६ ।।
एतानि समयान्युक्ता नारदेन सखी मम।।
तानि त्वं प्रतिपद्यस्व भजस्व च शुभाननाम्।।३७।।।
पुरूरवा उवाच ।।
रम्भे तवाद्य वाक्येन अमृतेनेव भामिनि ।।
मृत्योर्वशमनुप्राप्तो जीवितोऽस्मि शुभानने ।। ३८ ।।
ममापि तत्कृते रम्भे मदनः शरवृष्टिभिः ।।
दुनोति हदयं सुभ्रूर्दिवारात्रमतन्द्रितः ।। ३९ ।।
सा त्वं जीवय मां शीघ्रं दर्शयस्व वराङ्गनाम् ।।
स्थास्यामि समये तस्मिन्यस्मिन्मां वक्ष्यसे शुभे ।। 1.133.४०।।
कृतं तं समयं विद्धि नारदेन यदीरितम्।।
अनाक्रन्दे निमग्नस्य मम काममहोदधौ ।।४१।।
प्लवो भव विशालाक्षि प्राणदा भव सुन्दरि ।।
मार्कण्डेय उवाच ।। एवमुक्ता नरेन्द्रेण रम्भा चान्तर्दधे तदा ।। ४२ ।।
उर्वशीसहिता चाथ दर्शयामास सा नृपम् ।।
जयेत्युक्त्वा नरेन्द्रं तु तदा नारायणात्मजा ।। ४३ ।।
व्रीडिता पुरतस्तस्थौ तस्य राज्ञो महात्मनः ।।
तां दृष्ट्वा प्रीतिमापाथ स नरेन्द्रो महाद्युतिः ।। ४४ ।।
पुलकांचित सर्वाङ्गो वर्णितुं सा न शक्यते ।।
पाणावादाय त्रपितामुत्सङ्गे चोपवेशयत् ।। ४५ ।।
रत्नासनं तथा भेजे रम्भापि सुमनोहरम् ।।
ततश्चोवाच वचनं राजा मुदितमानसः ।।४६।।
पुरूरवा उवाच ।।
कामदेवः प्रसन्नोऽद्य ममोर्वशि वरावने ।।
अद्य वेदूम्यधिकं सुभ्रूः शक्रादात्मानमात्मना।।४७।।
त्रैलोक्यराज्यलाभेऽपि कुतः सा मे शुभे रतिः ।।
आज्ञाकारित्वमासाद्य या तवाद्य सुलोचने ।। ४८ ।।
मार्कण्डेय उवाच ।।
एवं वदति भूपाले ययौ रम्भा वरानना ।।
क्षणेन मेषसहिता पुनः प्राप्ता नृपान्तिकम् ।। ४९ ।।
मेषौ दत्त्वा नरेन्द्रस्य राजानं वाक्यमब्रवीत् ।।
रम्भोवाच ।।
यास्यामि लङ्कां राजेन्द्र तत्र प्राणेश्वरो मम ।।1.133.५०।।
मत्प्रतीक्षः स्थितः श्रीमान्धनदस्यात्मसंभवः ।।
नलकूबरनामासौ त्रैलोक्यविदितः प्रभो ।।५१ ।।
यथा चेयं सखी मह्यं नोत्कण्ठां कुरुते शुभा ।।
सखीजनस्य स्वर्ग्यस्य तथा कार्यं त्वयानघ ।। ५२ ।।
पुरूरवा उवाच ।।
यतिष्येऽहं तथा कर्तुं निर्वृता भव मानदे ।।
रत्नान्येतान्युपादाय निर्गच्छस्व यथासुखम् ।। ५३ ।।
मार्कण्डेय उवाच ।।
एवमुक्ता ततो रम्भा नृपतेः प्रीतिकारणात् ।।
रत्नान्युपादाय ययौ खेन लङ्कां महापुरीम् ।।५४।।
लब्ध्वोर्वशीं नरेन्द्रोऽपि रेमे स सहितस्तया ।।
यथा शच्या सुरारिघ्नो बलवान्पाकशासनः ।। ५५ ।।
संन्यस्तभारः स तु मन्त्रिमुख्ये रेमे तया यादवसिंहमुख्य।।
लक्ष्म्या समेतो भगवाननन्तो यथा स देवो भुवनस्य गोप्ता ।। ५६ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे उर्वशीपुरूरवःसमागमो नाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः ।। १३३।।