विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १२१

विकिस्रोतः तः
← अध्यायः १२० विष्णुधर्मोत्तरपुराणम्
अध्यायः १२१
वेदव्यासः
अध्यायः १२२ →

।। मार्कण्डेय उवाच ।। ।।
दितिः पुत्रद्वयं राजञ्जनयामास विश्रुतम् ।।
हिरण्याक्षं च दुर्धर्षं हिरण्यकशिपुं तथा ।। १ ।।
हिरण्याक्षो हतो राजन्नृवराहेण संयुगे ।।
हिरण्यकश्यपू राजन्नृसिंहेन निपातितः ।। २ ।।
हिरण्यकशिपोः पुत्रः प्रह्लादोऽरिकुलान्तकः ।।
कालनेमिश्च दुर्धर्षो विष्णुना घातितो युधि ।। ३ ।।
आराध्य केशवं देवं प्रह्लादश्च महाबलः ।।
प्राप्तवाञ्जीवितं दीर्घं ब्राह्मं दिनमनुत्तमम् ।। ४ ।।
कालनेमिश्च दुर्धर्षो महाबलपराक्रमः ।।
निहतो वासुदेवेन निवृत्ते तारकामये ।। ५।।
प्रह्रादस्य सुतः श्रीमान्राजन्नाम्ना विरोचनः ।।
विरोचनसुतः श्रीमान्बलिरित्येव विश्रुतः ।। ६ ।।
वामनं रूपमास्थाय बद्धो यो विष्णुना पुरा ।।
बलेर्बाणः सुतो राजन्स्मृतो बाहुसहस्रवान् ।। ७ ।।
पितुस्ते श्वशुरः श्रीमान्पितुरर्थे तवानघ ।।
विवाहं कृतवान्कृष्णो नगरे शोणिताह्वये ।। ८ ।।
यस्मिन्स वै देववरः प्रसह्य स्कन्दं च रुद्रं दितिजैः समेतम् ।।
रणे विजिग्ये नृपतिप्रधान सहानुगं वीर्यबलोपपन्नम् ।। ९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे दितिवंशानुकीर्तनं नामैकविंशत्यधिकशततमोऽध्यायः ।। १२१।।