विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १०५

विकिस्रोतः तः
← अध्यायः १०४ विष्णुधर्मोत्तरपुराणम्
अध्यायः १०५
वेदव्यासः
अध्यायः १०६ →

।। मार्कण्डेय उवाच ।। ।।
हविष्याशी ततस्तिष्ठेद्ब्रह्मचारी च तां निशाम् ।।
ग्रहशान्तिरियं प्रोक्ता मया कल्मषनाशिनी ।। १ ।।
अनावृष्ट्यां प्रयोक्तव्या वृष्टिकामेन भूभुजा ।।
अतिवृष्ट्यां प्रयोक्तव्या वृष्टिं शमयता तथा ।। २ ।।
यात्राकाले तथा कार्य्या रिपूणां क्षयमिच्छता ।।
रणकाले तथा कार्य्या संग्रामे जयमिच्छता ।। ३ ।।
कर्तव्या चाभिचारार्थं शत्रूणां मनुजेश्वर ।।
पुष्टिकामैर्नरैः कार्य्या विद्याकामैस्तथैव च ।। ४ ।।
लाभार्थं च तथा वैश्यैः शूद्रैर्धर्म्मफलेप्सुभिः ।।
राज्यकामेन कर्तव्या राजपुत्रेण पार्थिव ।। ५ ।।
तथा वन्धनमोक्षार्थं बद्धेन च महीपते ।।
स्थानच्युतेन कर्तव्या स्थानलब्धिमथेच्छता ।। ६ ।।
व्याधितेन च कर्तव्या व्याधेः प्रशममिच्छता ।।
मारके च तथा कार्या मारकक्षयमिच्छता ।। ७ ।।
पराभिचारशङ्कायां ग्रहशान्तिं प्रयोजयेत् ।।
दिव्यान्तरिक्षभौमानामुत्पातानां तथोद्भवे ।। ८ ।।
ग्रहाधीनां नरेन्द्राणामुच्छ्रायाः पतनानि च ।।
भावाभावौ च जगतां ग्रहायत्तौ नराधिप ।। ९ ।।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ।।
तस्मात्सर्वप्रयत्नेन नृणां पूज्यतमा ग्रहाः ।। 1.105.१० ।।
गुरुभक्तस्य दान्तस्य धर्मार्जितधनस्य च ।।
पूजकस्य ग्रहेन्द्राणां सदा सानुग्रहा ग्रहाः ।।११।।
मानवस्यास्वतन्त्रस्य गोब्राह्मणहितस्य च ।।
मांसभक्षणहीनस्य सदा सानुग्रहा ग्रहाः ।। १२ ।।
ये भक्ताः पुण्डरीकाक्षं देवदेवं जनार्दनम् ।।
नास्ति तेषां जगत्यस्मिन्दोषो ग्रहकृतो नृणाम् ।। १३ ।।
यथा बाणप्रहाराणां कवचं वारणं भवेत ।।
तथा दैवोपघातानां शान्तिर्भवति वारणम् ।।१४।।
ग्रहयागविधिं सम्यग्यश्चाधीते नराधिप ।।
ग्रहपाकितं चैव तस्यापि न भविष्यति ।। १५ ।।
अतीव विस्तरेणेयं ग्रहशांतिरुदाहृता ।।
धन्या यशस्या चायुष्या सर्वकिल्बिषनाशिनी ।। १६ ।।
प्रयुञ्जतः सम्यगिमां नरेन्द्र न जातु लोके भयमस्ति किञ्चित् ।।
आरोग्यमासाद्य चिरं च जीवेत्प्राप्नोति लक्ष्मीं सकलाँश्च भोगान् ।। १७ ।।
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहशान्तिफलवर्णनो नाम पञ्चाधिक शततमोऽध्यायः ।। १०५ ।।