विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०७७

विकिस्रोतः तः
← अध्यायः ०७६ विष्णुधर्मोत्तरपुराणम्
अध्यायः ७७
वेदव्यासः
अध्यायः ०७८ →

वज्र उवाच ॥
महाकल्पक्षये ब्रह्मन्समवस्थां वदस्व मे ॥
भवाञ्ज्ञाननिधिः स्फीतो यथा ब्रह्मा पितामहः ॥ १ ॥
मार्कण्डेय उवाच॥
पूर्णे संवत्सरशते संहृत्य सकलं जगत् ।
शेते ब्रह्मा महाराज प्राग्वदेकार्णवे तदा । २ ।
संन्यस्य देहं योगेन पुरुषं प्रतिपद्यते ॥
मोक्षस्थानमनुप्राप्ते देवदेवे पितामहे ॥ ३ ॥
ये गता ब्रह्मणः स्थानं मुच्यन्ते सर्व एव ते ॥
अण्डस्याभ्यन्तरं सर्वं तदाम्भोभिः प्रपूर्यते ॥ ४ ॥|
शरीरधारिणस्सर्वे तदा नश्यन्ति पार्थिव ॥
अन्तर्गतेन तोयेन भिन्नमण्डे जगत्पते ॥ ५ ॥
पूर्णे ब्रह्मायुषि तदा बाह्यस्थेऽम्भसि लीयते ॥
एवं सा जगदाधारा धारा तोये प्रलीयते ॥ ६ ॥
ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ॥
खे वायुः प्रलयं याति मनस्याकाशमेव च ॥ ७ ॥
मनः प्रलीयते बुद्धौ बुद्धिश्चात्मनि लीयते ॥
अव्यक्ते लीयते चात्मा अव्यक्तः पुरुषे परे ॥ ८ ॥
अनन्तानि तथोक्तानि यान्यण्डानि मया पुरा ॥
सर्वाणि तानि संहृत्य समकालं जगत्पतिः ॥ ९ ॥
प्रकृतौ तिष्ठति तदा सा रात्रिस्तस्य कीर्तिता ॥
ब्राह्मे समाशते पूर्णे पुनरेव जगत्पतिः ॥ 1.77.१० ॥
( सर्वं विधत्ते धर्मज्ञ यथापूर्वमुदाहृतम् ॥
अव्यक्तादिक्रमेणाथ विधायाण्डं महेश्वरः ॥ ११ ॥
अण्डे शरीरे भवति स्वयंभूरमृतद्युतिः ॥ )
स्वयं स एव धर्मज्ञ ब्रह्मा शुभचतुर्मुखः ॥ १२ ॥
सर्वेष्वण्डेषु धर्मज्ञस्समकालं जगत्पतिः ॥
स्वयं शरीरे भवति प्राकाम्यान्मनुजेश्वर ॥ १३ ॥
ब्रह्मायुषोन्ते जगतामवस्था मयेरिता ते यदुवृन्दनाथ ॥
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष ॥ १४ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० महाकल्पवर्णनो नाम सप्तसप्ततितमोऽध्यायः।। ।। ७७ ।।