विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०५०

विकिस्रोतः तः
← अध्यायः ०४९ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०५०
वेदव्यासः
अध्यायः ०५१ →

।। मार्कण्डेय उवाच ।। ।।
ब्रह्मास्त्रं वैष्णवं रौद्रमाग्नेयमथ वासवम् ।।
अस्त्रञ्च नैर्ऋतं याम्यं कौबेरमथ वारुणम् ।। १ ।।
वायव्यमथ सौम्यञ्च सौरं पार्वतमेव च ।।
चक्रास्त्रमथ वज्रास्त्रं पाशास्त्रं सार्पमेव च ।। २ ।।
गान्धर्वं स्वापनं भौतं तथा पाशुपतं शुभम् ।।
ऐषीकं तर्जनं प्रासं भारुण्डं नर्तनं तथा ।। ३ ।।
अस्त्ररोधनमादित्यं रैवतं मानवं तथा ।।
अक्षिसंतर्जनं भीमं जृम्भणं रोधनं तथा ।। ४ ।।
सौपर्णमथ पार्जन्यं राक्षसं मोहनं तथा ।।
कालास्त्रं दानवास्त्रञ्च अस्त्रं ब्रह्मशिरस्तथा ।। ५ ।।
एतान्यन्यानि चाऽन्यानि रामो निवसने ततः ।।
सप्रयोगरहस्यानि ससंहाराणि चाप्यथ ।। ६ ।।
आजहार महादेवात्प्रसादसुमुखात्ततः ।।
एवं हि वसतः कालो ययौ रामस्य धीमतः ।। ७ ।।
हरप्रसादसंजातविस्रम्भो भृगुनन्दनः ।।
ध्यानासक्तं हरं देवं कदाचिदथ दृष्टवान् ।। ८ ।।
ध्यानप्रसक्तं स हरं समीक्ष्य रामस्तु संजातकुतूहलेन ।।
विसिष्मिये धर्मभृतां वरिष्ठः स चेतसा यादववंशचन्द्र ।। ९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखंडे मार्कण्डेयवज्रसंवादे अस्त्र प्रदानं नाम पञ्चाशत्तमोऽध्यायः ।। ५० ।।