सामग्री पर जाएँ

योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०२६

विकिस्रोतः तः
← सर्गः २५ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः ०२६
अज्ञातलेखकः
सर्गः २७ →

श्रीवसिष्ठ उवाच ।
इति ते वरवर्णिन्यौ ततो ब्रह्माण्डमण्डलात् ।
निर्गत्यान्यदनुप्राप्ते यत्र तद्ब्राह्मणास्पदम् ।। १
ततो ददृशतुः सद्म स्वमेवं सिद्धयोषितौ ।
अदृश्ये एव लोकस्य मण्डपं ब्राह्मणास्पदम् ।। २
चिन्ताविधुरदासीकं बाष्पक्लिन्नाङ्गनामुखम् ।
विध्वस्तप्रायवदनं शीर्णपर्णाम्बुजोपमम् ।। ३
नष्टोत्सवपुरप्रायमगस्त्यात्तमिवार्णवम् ।
ग्रीष्मदग्धमिवोद्यानं विद्युद्दग्धमिव द्रुमम् ।। ४
वातच्छिन्नमिवाम्भोदं हिमदग्धमिवाम्बुजम् ।
अल्पस्नेहदशं दीपमिवालोकनभेदनम् ।। ५
आसन्नमृत्युकरुणाकुलवक्त्रकान्ति-
संशीर्णजीर्णतरुपर्णवनोपमानम् ।
वृष्टिव्यपायपरिधूसरदेशरूक्षं
जातं गृहेश्वरवियोगहतं गृहं तत् ।। ६
श्रीवसिष्ठ उवाच ।
अथ सा निर्मलज्ञानचिराभ्यासेन सुन्दरी ।
संपन्ना सत्यसंकल्पा सत्यकामा च देववत् ।। ७
चिन्तयामास मामेते देवीं चेमां स्वबन्धवः ।
पश्यन्तु तावत्सामान्यललनारूपधारणीम् ।। ८
ततो गृहजनस्तत्र स ददर्शाङ्गनाद्वयम् ।
लक्ष्मीगौर्योर्युगमिव समुद्भासितमन्दिरम् ।। ९
आपादविविधाम्लानमालावसनसुन्दरम् ।
वसन्तलक्ष्म्योर्युगलमिवामोदितकाननम् ।। १०
सर्वौषधिवनग्रामं पूरयन्त्यौ रसायनैः ।
शीतलाह्लादसुखदं चन्द्रद्वयमिवोदितम् ।। ११
लम्बालकलतालोललोचनालिविलोकनैः ।
किरत्कुवलयोन्मिश्रमालतीकुसुमोत्करान् ।। १२
द्रुतहेमरसापूरसरित्सरणहारिणा ।
देहप्रभाप्रवाहेण कनकीकृतकाननम् ।। १३
सहजाया वपुर्लक्ष्म्या लीलादोलाविलासिनः ।
त एते च तरङ्गाढ्या निजलावण्यवारिधेः ।। १४
विलोलबाहुलतिकायुगेनारुणपाणिना ।
किरन्नवनवं हैमं कल्पवृक्षलतावनम् ।। १५
पादैरमृदिताम्लानपुष्पकोमलपल्लवैः ।
स्थलाब्जदलमालाभैरस्पृशद्भूतलं पुनः ।। १६
तालीतमालखण्डानां शुष्काणां शुचिशोचिषाम् ।
आलोकनामृतासेकैर्जनयद्बालपल्लवान् ।। १७
नमोऽस्तु वनदेवीभ्यामित्युक्त्वा कुसुमाञ्जलिम् ।
तत्याज ज्येष्ठशर्माथ सार्धं गृहजनेन सः ।। १८
पपात पादयोर्गेहे तयोर्वै कुसुमाञ्जलिः ।
प्रालेयसीकरासारः पद्मिन्या इव पद्मयोः ।। १९
ज्येष्ठशर्मादय ऊचुः ।
जयतं वनदेव्यौ नो दुःखनाशार्थमागते ।
प्रायः परपरित्राणमेव कर्म निजं सताम् ।। २०
इति तद्वचनान्ते ते देव्यावूचतुरादरात् ।
आख्यात दुःखं येनायं लक्ष्यते दुःखितो जनः ।। २१
ज्येष्ठशर्मादयस्ते ते देव्यौ प्रति यथाक्रमम् ।
निजं तद्दुःखमाचख्युर्दम्पतिव्यसनात्मकम् ।। २२
ज्येष्ठशर्मादय ऊचुः ।
देव्यावभवतां स्निग्धाविह ब्राह्मणदम्पती ।
सर्वातिथी कुलकरौ स्तम्भाभूतौ द्विजस्थितेः ।। २३
तावद्य गृहमुत्सृज्य सपुत्रपशुबान्धवम् ।
स्वर्गं गतौ नः पितरौ तेन शून्यं जगत्त्रयम् ।। २४
पक्षिणो गृहमारुह्य विक्षिपन्तः प्रतिक्षणम् ।
देहं शून्ये मृतं भक्त्या शोचन्ति मधुरैः स्वरैः ।। २५
गुहागुरुगुरारावप्रलापलपनाकुलः ।
सरित्स्थूलाश्रुधाराभिः परिरोदिति पर्वतः ।। २६
निर्जराक्रन्दकारिण्यो मुक्ताम्बरपयोधराः ।
तप्तनिःश्वासविध्वस्ताः परं कार्श्यमिता दिशः ।। २७
क्षतविक्षतसर्वाङ्गः करुणाक्रन्दकर्कशः ।
उपवासरतो ग्रामो दीनो मृतिपरः स्थितः ।। २८
दिवसं प्रति वृक्षाणामवश्यायाश्रुबिन्दवः ।
गुच्छलोचनकोशेभ्यस्तापोष्णानि पतन्त्यधः ।। २९
प्रशान्तजनसंचारा रथ्या क्षारविधूसरा ।
विधवाविगतानन्दा संशून्यहृदया स्थिता ।। ३०
कोकिलालिप्रलापिन्यो वृष्टिबाष्पहता लताः ।
उष्णोष्णश्वसना देहं घन्ति पल्लवपाणिभिः ।। ३१
आत्मानं शतधा कर्तुं बृहच्छ्वभ्रशिलातले ।
निर्झराः प्रपतन्त्येते तापतप्तशरीरकाः ।। ३२
निःशङ्कया गतश्रीका मूका विलुलिताशयाः ।
अन्धेन तमसा पूर्णा गृहा गहनतां गताः ।। ३३
उद्यानपुष्पखण्डेभ्यो रुदद्भ्यो भ्रमरारवैः ।
पूतिगन्धो विनिर्याति स्वामोदापरनामकः ।। ३४
चैत्रद्रुमविलासिन्यो विरसाः प्रतिवासरम् ।
लताः कृशा विलीयन्ते सकुचद्गुच्छलोचनाः ।। ३५
प्रक्षेप्तुमम्बुधौ देहं प्रवृत्ता गन्तुमाकुलाः ।
कुल्याः कलकलालोलं दोलयन्त्यस्तनुं भुवि ।। ३६
अशङ्कमशकापातस्पन्दमप्यतिचापलम् ।
कलयन्त्यः स्थिता वाप्यो निस्पन्दानन्दमात्मनि ।। ३७
गायत्किन्नरगन्धर्वविद्याधरसुराङ्गनम् ।
नूनमद्य नभो जातमस्मत्ताताभ्यलंकृतम् ।। ३८
तद्देव्यौ क्रियतां तावदस्माकं शोकनाशनम् ।
महतां दर्शनं नाम न कदाचन निष्फलम् ।। ३९
इत्युक्तवन्तं सा पुत्रं मूर्ध्नि पस्पर्श पाणिना ।
पल्लवेनानता नम्रं मूलग्रन्थिमिवाब्जिनी ।। ४०
तस्याः स्पर्शेन तेनासौ दुःखदौर्भाग्यसंकटम् ।
जहौ प्रावृड्घनासङ्गाद्ग्रीष्मतापमिवाचलः ।। ४१
सर्वो गृहजनः सोऽथ तयोर्देव्योर्विलोकनात् ।
लक्ष्मीवान्दुःखनिर्मुक्तो बभूवामृतपो यथा ।। ४२
श्रीराम उवाच ।
तयास्य लीलया मात्रा पुत्रस्य ज्येष्ठशर्मणः ।
कस्मान्न दर्शनं दत्तं मोहं तावन्निराकुरु ।। ४३
श्रीवसिष्ठ उवाच ।
बुद्धः पृथ्व्यादिबोधेन येन पृथ्व्यादिसङ्घकः ।
तस्य पिण्डात्मतां धत्ते व्योमैवान्यस्य केवलम् ।। ४४
असदेवाङ्ग सदिव भाति पृथ्व्यादिवेदनात् ।
यथा बालस्य वेतालो नाभाति तदवेदनात् ।। ४५
यथा पृथ्व्यादिना भातमपृथ्व्यादि भवेत्क्षणात् ।
स्वप्ने स्वप्नपरिज्ञानात्तथा जाग्रत्यपि स्फुटम् ।। ४६
पृथ्व्यादि खतया बुद्धं खमित्येवानुभूयते ।
तथाहि क्षुब्धधातूनां कुड्येषु ख इवोद्यमः ।। ४७
स्वप्ने नगरमुर्वीं वा शून्यं खातं च बुध्यते ।
स्वप्राङ्गना च कुरुते शून्याप्यर्थक्रियां नृणाम् ।। ४८
खं पृथ्व्यादितया बुद्धं पृथ्व्यादि भवति क्षणात् ।
मूर्च्छायां परलोकोऽपि प्रत्यक्षमनुभूयते ।। ४९
बालो व्योमैव वेतालं म्रियमाणोऽम्बरे वनम् ।
केशोण्ड्रकं खमन्यस्तु खमन्यो वेत्ति मौक्तिकम्।। ५०
त्रस्तक्षीबार्धनिद्राश्च नौयानाश्च सदैव स्ये ।
वेतालवनवृक्षादि पश्यन्त्यनुभवन्ति च ।। ५१
यथाभावितमेतेषां पदार्थानामतो वपुः ।
अभ्यासजनितं भाति नास्त्येकं परमार्थतः ।। ५२
लीलया तु यथावस्तु बुद्ध्वा पृथ्व्यादिनास्तिता ।
आकाशमेव संवित्त्या भाति भ्रान्तितयोदितम् ।। ५३
ब्रह्मात्मैकचिदाकाशमात्रबोधवतो मुनेः ।
पुत्रमित्रकलत्राणि कथं कानि कदा कुतः ।। ५४
दृश्यमादावनुत्पन्नं यच्च भात्यजमेव तत् ।
सम्यग्ज्ञानवतामेव रागद्वेषदृशो कृतः ।। ५५
हस्तः शिरसि यद्दत्तो लीलया ज्येष्ठशर्मणः ।
तत्प्रभावस्थितारम्भसंबोधायाश्चितेः फलम् ।। ५६
बोधो हि चेतति यथैव तथा शुभानि
सूक्ष्मस्तु खादपि तथातितरां विशुद्धः ।
सर्वत्र राघव स एव पदार्थजालं
स्वप्नेषु कल्पितपुरेष्वनुभूतमेतत् ।। ५७

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने सिद्धदर्शनहेतुकथनं नाम षड्विंशः सर्गः ।। २६ ।।