पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १७०

विकिस्रोतः तः
← अध्यायः १६९ पद्मपुराणम्
अध्यायः १७०
वेदव्यासः
अध्यायः १७१ →

महादेव उवाच।
अत्र तीर्थात्परं तीर्थं सङ्गमाख्यमिति श्रुतम् ।
अत्र साभ्रमती गंगा मिलिता सागरेण तु १।
तत्र स्नानं च दानं च कर्तव्यं विधिपूर्वकम् ।
यत्र स्नात्वा तु मुच्यंते महापातकिनोऽपि ये २।
तत्र श्राद्धं प्रकर्तव्यं स्वानां च हितमिच्छता ।
यत्र वै तु कृते श्राद्धे पितृलोके वसेद्ध्रुवम् ३।
यत्र वै सागरो देवो नित्यं मिलति गंगया ।
ब्रह्महा तत्र मुच्येत किमन्यैरितरैरघैः ४।
यत्र तीर्थं न जानंति लोका वै मंदबुद्धयः ।
तदा वै मम नाम्ना च कर्तव्यं तीर्थमुत्तमम् ५।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे सङ्गमतीर्थंनाम सप्तत्यधिकशततमोऽध्यायः १७०।