पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १६६

विकिस्रोतः तः
← अध्यायः १६५ पद्मपुराणम्
अध्यायः १६६
वेदव्यासः
अध्यायः १६७ →

महादेव उवाच।
वैद्यनाथात्परं तीर्थं सर्वसिद्धिप्रदायकम् ।
तीर्थानामुत्तमं तीर्थं देवतीर्थमनुश्रुतम् १।
विभीषणाद्राक्षसेंद्राद्गृहीत्वा करमोजसा ।
प्रारब्धो धर्मपुत्रेण राजसूयो महाक्रतुः २।
दिग्जये दक्षिणे जाते नकुलेन हि पांडुना ।
साभ्रमत्यास्तटे देवि पांडुरार्येति विश्रुता ३।
स्थापिता परया भक्त्या भुक्तिमुक्तिप्रदायिनी ।
स्नातः साभ्रमतीतोये पांडुरार्यां नमस्य च ४।
अणिमाद्या सिद्धयोऽष्टौ तथा मेधां महीयसीम् ।
नरः प्राप्नोति वै नूनं नात्र कार्या विचारणा ५।
पांडुरार्यां नमस्कृत्य शुद्धभावेन मानवः ।
संवत्सरकृता पूजा दातव्या तत्त्वबुद्धिभिः ६।
तत्र तीर्थे तनुं त्यक्त्वा पांडुरार्यासमीपतः ।
कैलासशिखरं प्राप्य चंडेश्वरगणो भवेत् ७।
पुरा हनूमता तत्र तपस्तप्तं सुदुष्करम् ।
समुद्रप्लवने शक्तिर्जाता तीर्थप्रभावतः ८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे पांडुरार्यातीर्थंनाम षट्षष्ट्यधिकशततमोऽध्यायः १६६।