पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०७६

विकिस्रोतः तः
← अध्यायः ०७५ पद्मपुराणम्
अध्यायः ०७६
वेदव्यासः
अध्यायः ०७७ →

महादेव उवाच-
शृणु सुंदरि वक्ष्यामि स्तोत्रं चाभ्युदयं ततः ।
यच्छ्रुत्वा मुच्यते पापी ब्रह्महा नात्र संशयः १।
धाता वै नारदं प्राह तदहं तु ब्रवीमि ते ।
तमुवाच ततो देवः स्वयंभूरमितद्युतिः २।
प्रगृह्य रुचिरं बाहुं स्मारयेच्चौर्ध्वदेहिकम् ।
भगवान्नारायणः श्रीमान्देवश्चक्रायुधोहरिः ३।
शार्ङ्गधारी हृषीकेशः पुराणपुरुषोत्तमः ।
अजितः खड्गभृज्जिष्णुः कृष्णश्चैव सनातनः ४।
एकशृंगो वराहस्त्वं भूतभव्यभवात्मकः ।
अक्षरं ब्रह्म सत्यं तु आदौ चांते च राघवः ५।
लोकानां तु परो धर्मो विष्वक्सेनश्चतुर्भुजः ।
सेनानी रक्षणस्त्वं च वैकुंठस्त्वं जगत्प्रभुः ६।
प्रभवश्चाव्ययस्त्वं च उपेंद्रो मधुसूदनः ।
पृश्निगर्भो धृतार्चिस्त्वं पद्मनाभो रणांतकृत् ७।
शरण्यं शरणं च त्वामाहुः सेन्द्रा महर्षयः ।
ऋक्सामश्रेष्ठो वेदात्मा शतजिह्वो महर्षयः ८।
त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परंतपः ।
शतधन्वा वसुः पूर्वं वसूनां त्वं प्रजापतिः ९।
त्रयाणामपि लोकानां आदिकर्ता स्वयंप्रभुः ।
रुद्राणामष्टमो रुद्रः साध्यानामपि पंचमः १०।
आश्विनौ चापि कर्णौ ते सूर्यचंद्रौ च चक्षुषी ।
अंते चादौ च मध्ये च दृश्यसे त्वं परंतपः ११।
प्रभवो निधनं चास्य न विदुः को भवानिति ।
दृश्यसे सर्वलोकेषु गोषु च ब्रह्मणेषु च १२।
दिक्षु सर्वासु गगने पर्वतेषु गुहासु च ।
सहस्रनयनः श्रीमाञ्छतशीर्षः सहस्रपात् १३।
त्वं धारयसि भूतानि वसुधां च सपर्वताम् ।
अंतःपृथिव्यां सलिले सर्वसत्वमहोरगः १४।
त्रींल्लोकान्धारयन्नास्ते देवगंधर्वदानवान् ।
अहं ते हृदयं राम जिह्वा देवी सरस्वती १५।
देवा रोमाणि गात्रेषु निर्मितास्ते स्वमायया ।
निमिषस्ते स्मृता रात्रिरुन्मेषो दिवसस्तथा १६।
संस्कारस्ते भवेद्देहो न तदस्ति विना त्वया ।
जगत्सर्वं शरीरे तत्स्थैर्यं च वसुधातलम् १७।
अग्निः कोपः प्रसादस्ते शेषः श्रीमांश्च लक्ष्मणः ।
त्वया लोकास्त्रयः क्रांताः पुराणैर्विक्रमैस्त्रिभिः १८।
त्वयेंद्रश्च कृतो राजा बलिर्बद्धो महासुरः ।
लोकान्संहृत्य कालस्त्वं निवेश्यात्मनि केवलम् १९।
करोष्येकार्णवं घोरं दृश्यादृश्ये च नान्यथा ।
त्वया सिंहवपुः कृत्वा परमं दिव्यमुत्तमम् २०।
भयदः सर्वभूतानां हिरण्यकशिपुर्हतः ।
त्वमश्ववदनो भूत्वा पातालतलमाश्रितः २१।
संहृतं परमं हव्यं रहस्यं वै पुनः पुनः ।
यत्परं श्रूयते ज्योतिर्यत्परं श्रूयते परः २२।
यत्परं परतश्चै वपरमात्मेति कथ्यते ।
परो मंत्रः परं तेजस्तमेव हि निगद्यसे २३।
हव्यं कव्यं पवित्रं च प्राप्तिः स्वर्गापवर्गयोः ।
स्थित्युत्पत्तिविनाशांस्ते त्वामाहुः प्रकृतेः परम् २४।
यज्ञश्च यजमानश्च होता चाध्वर्युरेव च ।
भोक्ता यज्ञफलानां च त्वं वै वेदैश्च गीयसे २५।
सीतालक्ष्मीर्भवान्विष्णुर्देवः कृष्णः प्रजापतिः ।
वधार्थं रावणस्य त्वं प्रविष्टो मानुषीं तनुम् २६।
तदिदं च त्वया कार्यं कृतं धर्मभृतां वर ।
निहतो रावणो राम प्रहृष्टा देवताः कृताः २७।
अमोघं देववीर्यं ते न ते मोघः पराक्रमः ।
अमोघदर्शनं राम न च मोघस्तव स्तवः २८।
अमोघास्ते भविष्यंति भक्तिमंतो नरा भुवि ।
ये च त्वां देव संभक्ताःपुराणं पुरुषोत्तमम् २९।
इममार्षस्तवं पुण्यमितिहासं पुरातनम् ।
ये नराः कीर्तयिष्यंति नास्ति तेषां पराभवः ३०।
कथमिह हि पराभवं व्रजेयुः पुरुषवराः पुरुषोत्तमे हि भक्ताः ।
नहि जगति चतुर्भुजप्रियाणां त्रिदश इहास्ति वरप्रदो विशिष्टः ३१।
स्तोत्राणां प्रवरं स्तोत्रं राघवस्य महात्मनः ।
त्रिकाले यः पठेन्नित्यं महापातकवानपि ३२।
संध्याकाले द्विजश्रेष्ठैः श्राद्धकाले विशेषतः ।
पठनीयं प्रयत्नेन भक्तिभावेन चेतसा ३३।
इदं गोप्यं हि परमं नाख्येयं कर्हिचित्क्वचित् ।
पठनान्मुक्तिमाप्नोति सात्त्वतः स भवेद्ध्रुवम् ३४।
प्रथमं पिंडपूजांते ब्राह्मणैर्द्विजसत्तमैः ।
पठितव्यमिदं स्तोत्रं श्राद्धमक्षयमाप्नुयात् ३५।
इदं पवित्रं परमं जनानां मुक्तिदायकम् ।
लिखित्वा वै गृहे यस्तु धारयेत्सुसमाधिना ३६।
आयुः श्रीश्च बलं तस्य वृद्धिं याति दिनेदिने ।
लिखित्वा ब्राह्मणे दद्याद्धीमान्यो वै कदाचन ३७।
विमुक्ताः पूर्वजास्तस्य यांति विष्णोः परं पदम् ।
चतुर्णां चैव वेदानां पाठे चैव तु यत्फलम् ३८।
समवाप्नोति जापेन नरः स्तोत्रं पठन्जपन् ।
धृत्वा वै शंखचक्रादि ब्राह्मणैर्वेदतत्परैः ३९।
श्राद्धकाले महादेवि अक्षयं तद्भवेद्ध्रुवम् ।
कंठे पद्माक्षमालां च शंखचक्रादिधारणम् ४०।
ततः श्राद्धं प्रकुर्वीत इदं स्तोत्रं पठन्जपन् ।
विधिना भक्तिभावेन पूर्णं भवति नान्यथा ४१।
अतो भक्तिमता पुंसा पठनीयं प्रयत्नतः ।
पठनात्सर्वमाप्नोति स नरः सुखमेधते ४२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे आभ्युदयिकमूर्ध्वदैहिकस्तोत्रं नाम षट्सप्ततितमोऽध्यायः ७६ ।