पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०५८

विकिस्रोतः तः
← अध्यायः ०५७ पद्मपुराणम्
अध्यायः ०५८
वेदव्यासः
अध्यायः ०५९ →

युधिष्ठिर उवाच-
कथयस्व प्रसादेन ममाग्रे मधुसूदन ।
इषस्य कृष्णपक्षे तु किंनामैकादशीभवेत् १।
श्रीकृष्ण उवाच-
आश्विने कृष्णपक्षे तु इंदिरा नाम नामतः ।
तस्या व्रतप्रभावेन महापापं प्रणश्यति २।
अधोयोनि गतानां च पितॄणां गतिदायिनी ।
शृणुष्वावहितो राजन्कथां पापहरां पराम् ३।
यस्याः श्रवणमात्रेण वाजपेयफलं लभेत् ।
पुरा कृतयुगे राजन्बभूव नृपनंदनः ४।
इंद्रसेन इति ख्यातः पुरा माहिष्मतीपतिः ।
स राजा पालयामास धर्मेण यशसान्वितः ५।
पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः ।
माहिष्मत्यधिपो राजा विष्णुभक्तिपरायणः ६।
जपन्गोविंदनामानि मुक्तिदानि नराधिपः ।
कालं नयति विधिवदध्यात्मध्यानचिंतकः ७।
एकस्मिन्दिवसे राज्ञि सुखासीने सदो गते ।
अवतीर्यागमत्तत्र ह्यंबरान्नारदो मुनिः ८।
तमागतमभिप्रेक्ष्य प्रत्युत्थाय कृतांजलि ।
पूजयित्वाथ विधिना चासने संन्यवेशयत् ९।
सुखोपविष्टं स मुनिं प्रत्युवाच नृपोत्तमः ।
राजोवाच-।
त्वत्प्रसादान्मुनिश्रेष्ठ सर्वं च कुशलं मम १०।
अद्य क्रतुक्रियाः सर्वाः सफलास्तव दर्शनात् ।
प्रसादं कुरु देवर्षे ब्रूह्यागमनकारणम् ११।
नारद उवाच-
श्रूयतां नृपशार्दूल मद्वचो विस्मयप्रदम् ।
ब्रह्मलोकादहं प्राप्तो यमलोकं नृपोत्तम १२।
शमनेनार्चितो भक्त्या उपविष्टो वरासने ।
धर्मशीलः सत्यवांस्तु भास्करिं समुपासते १३।
बहुपुण्यप्रकर्त्ता च व्रतवैकल्यदोषतः ।
सभायां श्राद्धदेवस्य मया दृष्टः पिता तव १४।
कथितस्तेन संदेशस्तं निबोध जनेश्वर ।
इंद्रसेन इति ख्यातो राजा माहिष्मतीपतिः १५।
तस्याग्रे कथयब्रह्मन्स्थितं मां यमसंनिधौ ।
केनापि चांतरायेण पूर्वजन्मोद्भवेन च १६।
स्वर्गं प्रेषय मां पुत्र इंदिरा पुण्य दानतः ।
इत्युक्तोऽहं समायातः समीपं तव पार्थिव १७।
पितुः स्वर्गकृते राजन्निंदिरा व्रतमाचर ।
तेन व्रतप्रभावेन स्वर्गं यास्यति ते पिता १८।
राजोवाच-
कथयस्व प्रसादेन भगवन्निंदिरा व्रतम् ।
विधिना केन कर्त्तव्यं कस्मिन्पक्षे तिथौ तथा १९।
नारदउवाच-
शृणु राजेंद्र ते वच्मि व्रतस्यास्य विधिं शुभम् ।
आश्विनस्यासिते पक्षे दशमी दिवसे शुभे २०।
प्रातःस्नानं प्रकुर्वीत श्रद्धायुक्तेन चेतसा ।
ततो मध्याह्नसमये स्नानं कृत्वा समाहितः २१।
पितॄणां प्रीतये श्राद्धं कुर्याच्छ्रद्धा समन्वितः ।
एकभक्तं ततः कृत्वा रात्रौ भूमौ शयीत च ।
प्रभाते विमले जाते प्राप्ते चैकादशी दिने २२।
मुख प्रक्षालनं कुर्याद्दंतधावन वर्जितम् ।
उपवासस्य नियमं गृह्णीयाद्भक्तिभावतः २३।
अद्यस्थित्वा निराहारः सर्वभोग विवर्जितः ।
श्वो भोक्ष्ये पुंडरीकाक्ष शरणं मे भवाच्युत २४।
इत्येवं नियमं कृत्वा मध्याह्न समये तथा ।
शालग्राम शिलाग्रे तु स्नानं कुर्याद्यथाविधि २५।
पूजयित्वा हृषीकेशं धूप गंधादिभिस्तथा ।
रात्रौ जागरणं कुर्यात्केशवस्य समीपतः २६।
ततः प्रभातसमये प्राप्ते वै द्वादशी दिने ।
अर्चयित्वा हरिं भक्त्या श्राद्धं कुर्याद्यथाविधि २७।
पितॄणां प्रीतये श्राद्धं कुर्याच्छ्रद्धा समन्वितः ।
गोधूम चूर्णैर्यछ्राद्धं कृतं मेध्यकृतं भवेत् २८।
यवैर्व्रीहितिलैर्माषैर्गोधूमैश्चणकैस्तथा ।
ब्राह्मणान्भोजयेद्राजन् दक्षिणाभिः प्रपूजितान् २९।
बंधु दौहित्र पुत्राद्यैः स्वयं भुंजीत वाग्यतः ।
अनेन विधिना राजन्कुरुव्रतमतंद्रितः ३०।
विष्णुलोकं प्रयास्यंति पितरस्तव भूपते ।
इत्युक्त्वा नृपतिं राजन्मुनिरंतरधीयत ३१।
यथोक्त विधिना राजा चकार व्रतमुत्तमम् ।
अंतःपुरेण सहितः पुत्रभृत्य समन्वितः ३२।
कृते व्रते तु कौंतेय पुष्पवृष्टिरभूद्दिवः ।
तत्पिता गरुडारूढो जगाम हरिमंदिरम् ३३।
इंद्रसेनोऽपिराजर्षिः कृत्वा राज्यमकंटकम् ।
राज्ये निवेश्य तनयं जगाम त्रिदिवं स्वयम् ३४।
इंदिरा व्रत माहात्म्यं तवाग्रे कथितं मया ।
पठनाच्छ्रवणाद्राजन् सर्वपापैः प्रमुच्यते ३५।
भुक्त्वेह निखिलान्भोगान् विष्णुलोके वसेच्चिरम् ३६।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यांसंहितायाम् उत्तरखंडे ।
उमापतिनारदसंवादे आश्विनकृष्णेंदिरैकादशीनामाष्टपंचाशत्तमोऽध्यायः ५८।