पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७४
← अध्यायः ०७३ | पद्मपुराणम् अध्यायः ०७४ वेदव्यासः |
अध्यायः ०७५ → |
ईश्वर उवाच-।
एकदा रहसि श्रीमानुद्धवो भगवित्प्रियः ।
सनत्कुमारमेकांते ह्यपृच्छत्पार्षदः प्रभो १।
यत्र क्रीडति गोविंदो नित्यं नित्यसुरास्पदे ।
गोपांगनाभिर्यत्स्थानं कुत्र वा कीदृशं परम् २।
तत्तत्क्रीडनवृत्तांतमन्यद्यद्यत्तदद्भुतम् ।
ज्ञातं चेत्तव तत्कथ्यं स्नेहो मे यदि वर्त्तते ३।
सनत्कुमार उवाच-।
कदाचिद्यमुनाकूले कस्यापि च तरोस्तले ।
सुवृत्तेनोपविष्टेन भगवत्पार्षदेन वै ४।
यद्रहोऽनुभवस्तस्य पार्थेनापि महात्मना ।
दृष्टं कृतं च यद्यत्तत्प्रसंगात्कथितं मयि ५।
तत्तेऽहं कथयाम्येतच्छृणुष्वावहितः परम् ।
किंत्वेतद्यत्र कुत्रापि न प्रकाश्यं कदाचन ६।
अर्जुन उवाच-।
शंकराद्यैर्विरिंच्याद्यैरदृष्टमश्रुतं च यत् ।
सर्वमेतत्कृपांभोधे कृपया कथय प्रभो ७।
किं त्वया कथितं पूर्वमाभीर्यस्तव वल्लभाः ।
तास्ताः कतिविधा देव कति वा संख्यया पुनः ८।
नामानि कति वा तासां का वा कुत्र व्यवस्थिताः ।
तासां वा कति कर्माणि वयोवेषश्च कः प्रभो ९।
काभिः सार्द्धं क्व वा देव विहरिष्यसि भो रहः ।
नित्ये नित्यसुखे नित्यविभवे च वने वने १०।
तत्स्थानं कीदृशं कुत्र शाश्वतं परमं महत् ।
कृपा चेत्तादृशी तन्मे सर्वं वक्तुमिहार्हसि ११।
यदपृष्टं मयाप्येवमज्ञातं यद्रहस्तव ।
आर्तार्तिघ्न महाभाग सर्वं तत्कथयिष्यसि १२।
श्रीभगवानुवाच-।
तत्स्थानं वल्लभास्ता मे विहारस्तादृशो मम ।
अपि प्राणसमानानां सत्यं पुंसामगोचरः १३।
कथिते दृष्टुमुत्कंठा तव वत्स भविष्यति ।
ब्रह्मादीनामदृश्यं यत्किं तदन्य जनस्य वै १४।
तस्माद्विरम वत्सैतत्किं नु तेन विना तव ।
एवं भगवतस्तस्य श्रुत्वा वाक्यं सुदारुणम् १५।
दीनः पादांबुजद्वंद्वे दंडवत्पतितोऽर्जुनः ।
ततो विहस्य भगवान्दोर्भ्यामुत्थाप्य तं विभुः १६।
उवाच परमप्रेम्णा भक्ताय भक्तवत्सलः ।
तत्किं तत्कथनेनात्र द्रष्टव्यं चेत्त्वया हि यत् १७।
यस्यां सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति ।
लयमेष्यति तां देवीं श्रीमत्त्रिपुरसुंदरीम् १८।
आराध्य परया भक्त्या तस्यै स्वं च निवेदय ।
तां विनैतत्पदं दातुं न शक्नोमि कदाचन १९।
श्रुत्वैतद्भगवद्वाक्यं पार्थो हर्षाकुलेक्षणः ।
श्रीमत्यास्त्रिपुरादेव्या ययौ श्रीपादुकातलम् २०।
तत्र गत्वा ददर्शैनां श्रीचिंतामणिवेदिकाम् ।
नानारत्नैर्विरचितैः सोपानैरतिशोभिताम् २१।
तत्र कल्पतरुं नाना पुष्पैः फलभवैर्नतम् ।
सर्वर्त्तुकोमलदलैः स्नवन्माध्वीकशीकरैः २२।
वर्षद्भिर्वायुनालोलैः पल्लवैरुज्ज्वलीकृतम् ।
शुकैश्च कोकिलगणैः सारिकाभिः कपोतकैः २३।
लीलाचकोरकै रम्यैः पक्षिभिश्च निनादितम् ।
यत्र गुंजद्भृंगराज कोलाहलसमाकुलम् २४।
मणिभिर्भास्वरैरुद्यद्दावानल मनोहरम् ।
श्रीरत्नमंदिरं दिव्यं तले तस्य महाद्भुतम् २५।
रत्नसिंहासनं तत्र महाहैमाभिमोहनम् ।
तत्र बालार्कसंकाशां नानालंकारभूषिताम् २६।
नवयौवनसंपन्नां सृणिपाशधनुः शरैः ।
राजच्चतुर्भुजलतां सुप्रसन्नां मनोहराम् २७।
ब्रह्मविष्णुमहेशादि किरीटमणिरश्मिभिः ।
विराजितपदांभोजामणिमादिभिरावृताम् २८।
प्रसन्नवदनां देवीं वरदां भक्तवत्सलाम् ।
अर्जुनोऽहमिति ज्ञातः प्रणम्य च पुनःपुनः २९।
विहितांजलिरेकांते स्थितो भक्तिभरान्वितः ।
सा तस्योपासितं ज्ञात्वा प्रसादं च कृपानिधिः ३०।
उवाच कृपया देवी तस्य स्मरणविह्वला ।
भगवत्युवाच-।
किं वा दानं त्वया वत्स कृतं पात्राय दुर्लभम् ३१।
इष्टं यज्ञेन केनात्र तपो वा किमनुष्ठितम् ।
भगवत्यमला भक्तिः का वा प्राक्समुपार्ज्जिता ३२।
किं वास्मिन्दुर्लभं लोके किं वा कर्म शुभं महत् ।
प्रसादस्त्वयि येनायं प्रपन्ने च मुदा किल ३३।
गूढातिगूढश्चानन्य लभ्यो भगवता कृतः ।
नैतादृङ्मर्त्यलोकानां न च भूतलवासिनाम् ३४।
स्वर्गिणां देवतादीनां तपस्वीश्वरयोगिनाम् ।
भक्तानां नैव सर्वेषां नैव नैव च नैव च ३५।
प्रसादस्तु कृतो वत्स तव विश्वात्मना यथा ।
तदेहि भज बुद्ध्वैव कुलकुंडं सरो मम ३६।
सर्वकामप्रदा देवी त्वनया सह गम्यताम् ।
तत्रैव विधिवत्स्नात्वा द्रुतमागम्यतामिह ३७।
तदैव तत्र गत्वा स स्नात्वा पार्थस्तथागतः ।
आगतं तं कृतस्नानं न्यासमुद्रार्पणादिकम् ३८।
कारयित्वा ततो देव्या तस्य वै दक्षिणश्रुतौ ।
सद्यः सिद्धिकरी बाला विद्यानिगदिता परा ३९।
हकारार्द्धपरा द्वीपा द्वितीया विश्वभूषिता ।
अनुष्ठानं च पूजां च जपं च लक्षसंख्यकम् ४०।
कोरकैः करवीराणां प्रयोगं च यथातथम् ।
निर्वर्त्य तमुवाचेदं कृपया परमेश्वरी ४१।
अनेनैव विधानेन क्रियतां मदुपासनम् ।
ततो मयि प्रसन्नायां तवानुग्रहकारणात् ४२।
ततस्तु तत्र पर्य्यंतेष्वधिकारो भविष्यति ।
इत्ययं नियमः पूर्वं स्वयं भगवता कृतः ४३।
श्रुत्वैवमर्जुनस्तेन वर्मणा तां समर्चयत् ।
ततः पूजां जपं चैव कृत्वा देवी प्रसादिता ४४।
कृत्वा ततः शुभं होमं स्नानं च विधिना ततः ।
कृतकृत्यमिवात्मानं प्राप्तप्रायमनोरथम् ४५।
करस्थां सर्वसिद्धिं च स पार्थः सममन्यत ।
अस्मिन्नवसरे देवी तमागत्य स्मितानना ४६।
उवाच गच्छ वत्स त्वमधुना तद्गृहांतरे ।
ततः ससंभ्रमः पार्थः समुत्थाय मुदान्वितः ४७।
असंख्यहर्षपूर्णात्मा दंडवत्तां ननाम ह ।
आज्ञप्तस्तु तया सार्द्धं देवी वयस्ययार्जुनः ४८।
गतो राधापतिस्थानं यत्सिद्धैरप्यगोचरम् ।
ततश्च स उपादिष्टो गोलोकादुपरिस्थितम् ४९।
स्थिरं वायुधृतं नित्यं सत्यं सर्वसुखास्पदम् ।
नित्यं वृंदावनं नाम नित्यरासमहोत्सवम् ५०।
अपश्यत्परमं गुह्यं पूर्णप्रेमरसात्मकम् ।
तस्या हि वचनादेव लोचनैर्वीक्ष्य तद्रहः ५१।
विवशः पतितस्तत्र विवृद्धप्रेमविह्वलः ।
ततः कृच्छ्राल्लब्धसंज्ञो दोर्भ्यामुत्थापितस्तया ५२।
सांत्वनावचनैस्तस्याः कथंचित्स्थैर्यमागतः ।
ततस्तपः किमन्यन्मे कर्त्तव्यं विद्यते वद ५३।
इति तद्दर्शनोत्कंठाभरेण तरलोऽभवत् ।
ततस्तया करे तस्य धृत्वा तत्पददक्षिणे ५४।
प्रतिपेदे सुदेशेन गत्वा चोक्तमिदं वचः ।
स्नानायैतच्छुभं पार्थ विश त्वं जलविस्तरम् ५५।
सहस्रदलपद्मस्थ संस्थानं मध्यकोरकम् ।
चतुःसरश्चतुर्धारमाश्चर्यकुलसंकुलम् ५६।
अस्यांतरे प्रविश्याथ विशेषमिह पश्यसि ।
एतस्य दक्षिणे देश एष चात्र सरोवरः ५७।
मधुमाध्वीकपानं यन्नाम्ना मलयनिर्झरः ।
एतच्च फुल्लमुद्यानं वसंते मदनोत्सवम् ५८।
कुरुते यत्र गोविंदो वसंतकुसुमोचितम् ।
यत्रावतारं कृष्णस्य स्तुवंत्येव दिवानिशम् ५९।
भवेद्यत्स्मरणादेव मुनेः स्वांते स्मरांकुरः ।
ततोऽस्मिन्सरसि स्नात्वा गत्वा पूर्वसरस्तटम् ६०।
उपस्पृश्य जलं तस्य साधयस्व मनोरथम् ।
ततस्तद्वचनं श्रुत्वा तस्मिन्सरसि तज्जले ६१।
कल्हारकुमुदांभोजरक्तनीलोत्पलच्युतैः ।
परागैरंजिते मंजुवासिते मधुबिंदुभिः ६२।
तुंदिले कलहंसादि नादैरांदोलिते ततः ।
रत्नाबद्धचतुस्तीरे मंदानिलतरंगिते ६३।
मग्ने जलांतः पार्थे तु तत्रैवांतर्दधेऽथ सा ।
उत्थाय परितो वीक्ष्य संभ्रांता चारुहासिनी ६४।
सद्यः शुद्धस्वर्णरश्मिगौरकांततनूलताम् ।
स्फुरत्किशोरवर्षीयां शारदेंदुनिभाननाम् ६५।
सुनीलकुटिलस्निग्धविलसद्रत्नकुंतलाम् ।
सिंदूरबिंदुकिरणप्रोज्ज्वलालकपट्टिकाम् ६६।
उन्मीलद्भ्रूलताभंगि जितस्मरशरासनाम् ।
घनश्यामलसल्लोल खेलल्लोचनखंजनाम् ६७।
मणिं कुंडलतेजोंशु विस्फुरद्गंडमण्डलाम् ।
मृणालकोमलभ्राजदाश्चर्यभुजवल्लरीम् ६८।
शरदंबुरुहां सर्वश्रीचौरपाणिपल्लवाम् ।
विदग्धरचितस्वर्णकटिसूत्रकृतांतराम् ६९।
कूजत्कांचीकलापांत विभ्राजज्जघनस्थलाम् ।
भ्राजद्दुकूलसंवीतनितंबोरुसुमंदिराम् ७०।
शिंजानमणिमंजीरसुचारुपदपंकजाम् ।
स्फुरद्विविधकंदर्पकलाकौशलशालिनीम् ७१।
सर्वलक्षणसंपन्नां सर्वाभरणभूषिताम् ।
आश्चर्यललनाश्रेष्ठामात्मानं सव्यलोकयत् ७२।
विसस्मार च यत्किंचित्पौर्वदेहिकमेव च ।
मायया गोपिकाप्राणनाथस्य तदनंतरम् ७३।
इति कर्त्तव्यतामूढा तस्थौ तत्र सुविस्मिता ।
अत्रांतरेंऽबरे धीर ध्वनिराकस्मिकोऽभवत् ७४।
अनेनैव पथा सुभ्रु गच्छ पूर्वसरोवरम् ।
उपस्पृश्य जलं तस्य साधयस्व मनोरथम् ७५।
तत्र संति हि सख्यस्ते मा सीद वरवर्णिनि ।
ता हि संपादयिष्यंति तत्रैव वरमीप्सितम् ७६।
इति दैवीं गिरं श्रुत्वा गत्वा पूर्वसरोऽथ सा ।
नानापूर्वप्रवाहं च नानापक्षिसमाकुलम् ७७।
स्फुरत्कैरवकह्लारकमलेंदीवरादिभिः ।
भ्राजितं पद्मरागैश्च पद्मसोपानसत्तटम् ७८।
विविधैः कुसुमोद्दामैर्मंजुकुंजलताद्रुमैः ।
विराजितचतुस्तीरमुपस्पृश्य स्थिता क्षणम् ७९।
तत्रांतरे क्वणत्कांची मंजुमंजीररंजितम् ।
किंकिणीनां झणत्कारं शुश्रावोत्कर्णसंपुटे ८०।
ततश्च प्रमदावृंदमाश्चर्ययुतयौवनम् ।
आश्चर्यालंकृतिन्यासमाश्चर्याकृतिभाषितम् ८१।
अद्भुतांगमपूर्वं सा पृथगाश्चर्यविभ्रमम् ।
चित्रसंभाषणं चित्रहसितालोकनादिकम् ८२।
मधुराद्भुतलावण्यं सर्वमाधुर्यसेवितम् ।
चिल्लावण्यगतानंतमाश्चर्याकुलसुंदरम् ८३।
आश्चर्यस्निग्धसौंदर्यमाश्चर्यानुग्रहादिकम् ।
सर्वाश्चर्यसमुदयमाश्चर्यालोकनादिकम् ८४।
दृष्ट्वा तत्परमाश्चर्यं चिंतयंती हृदा कियत् ।
पादांगुष्ठेना लिखंती भुवं नम्रानना स्थिता ८५।
ततस्तासां संभ्रमोऽभूद्दृष्टीनां च परस्परम् ।
केयं मदीयजातीया चिरेणानस्तकौतुका ८६।
इति सर्वाः समालोक्य ज्ञातव्येयमिति क्षणम् ।
आमंत्र्य मंत्रणाभिज्ञाः कौतुकाद्द्रष्टुमागताः ८७।
आगत्य तासामेकाथ नाम्ना प्रियमुदा मता ।
गिरा मधुरया प्रीत्या तामुवाच मनस्विनी ८८।
प्रियमुदोवाच-।
कासि त्वं कस्य कन्यासि कस्य त्वं प्राणवल्लभा ।
जाता कुत्रासि केनास्मिन्नानीता वा गता स्वयम् ८९।
एतच्च सर्वमस्माकं कथ्यतां चिंतया किमु ।
स्थानेऽस्मिन्परमानंदे कस्यापि दुःखमस्ति किम् ९०।
इति पृष्टा तया सा तु विनयावनतिं गता ।
उवाच सुस्वरं तासां मोहयंती मनांसि च ९१।
अर्जुन उवाच- ।
का वास्मि कस्य कन्या वा प्रजाता कस्य वल्लभा ।
आनीता केन वा चात्र किं वाथ स्वयमागता ९२।
एतत्किंचिन्न जानामि देवी जानातु तत्पुनः ।
कथितं श्रूयतां तन्मे मद्वाक्ये प्रत्ययो यदि ९३।
अस्यैव दक्षिणे पार्श्वे एकमस्ति सरोवरम् ।
तत्राहं स्नातुमायाता जाता तत्रैव संस्थिता ९४।
विषमोत्कंठिता पश्चात्पश्यंती परितो दिशम् ।
एकमाकाशसंभूतं ध्वनिमश्रौषमद्भुतम् ९५।
अनेनैव पथा सुभ्रु गच्छ पूर्वसरोवरम् ।
उपस्पृश्य जलं तस्य साधयस्व मनोरथम् ९६।
तत्र संति हि सख्यस्ते मा सीद वरवार्णिनि ।
ताहि संपादयिष्यंति तत्र ते वरमीप्सितम् ९७।
इत्याकर्ण्य वचस्तस्य तस्मादत्र समागता ।
विषादहर्षपूर्णात्मा चिंताकुलसमाकुला ९८।
आगतास्य जलं स्पृष्ट्वा नानाविधशुभध्वनिम् ।
अश्रौषं च ततः पश्चादपश्यं भवतीः पराः ९९।
एतन्मात्रं विजानामि कायेन मनसा गिरा ।
एतदेव मया देव्यः कथितं यदि रोचते १००।
का यूयं तनुजाः केषां क्व जाताः कस्य वल्लभाः ।
तच्छ्रुत्वा वचनं तस्याः सा वै प्रियमुदाब्रवीत् १०१।
अस्त्वेवं प्राणसख्यः स्म तस्यैव च वयं शुभे ।
वृंदावनकलानाथ विहारदारिकाः सुखम् १०२।
ता आत्ममुदितास्तेन व्रजबाला इहागताः ।
एताः श्रुतिगणाः ख्याता एताश्च मुनयस्तथा १०३।
वयं बल्लवबाला हि कथितास्ते स्वरूपतः ।
अत्र राधापतेरंगात्पूर्वायाः प्रेयसीतमाः १०४।
नित्या नित्यविहारिण्यो नित्यकेलि भुवश्चराः ।
एषा पूर्णरसा देवी एषा च रसमंथरा १०५।
एषा रसालया नाम एषा च रसवल्लरी ।
रसपीयूषधारेयमेषा रसतरंगिणी १०६।
रसकल्लोलिनी चैषा इयं च रसवापिका ।
अनंगसेना एषैव इयं चानंगमालिनी १०७।
मदयंती इयं बाला एषा च रसविह्वला ।
इयं च ललिता नाम इयं ललितयौवना १०८।
अनंगकुसुमा चैषा इयं मदनमंजरी ।
एषा कलावती नाम इयं रतिकला स्मृता १०९।
इयं कामकला नाम इयं हि कामदायिनी ।
रतिलोला इयं बाला इयं बाला रतोत्सुका ११०।
एषा चरति सर्वस्व रतिचिंतामणिस्त्वसौ ।
नित्यानंदाः काश्चिदेता नित्यप्रेमरसप्रदाः १११।
अतःपरं श्रुतिगणास्तासां काश्चिदिमाः शृणु ।
उद्गीतैषा सुगीतेयं कलगीता त्वियं प्रिया ११२।
एषा कलसुराख्याता बालेयं कलकंठिका ।
विपंचीयं क्रमपदा एषा बहुहुता मता ११३।
एषा बहुप्रयोगेयं ख्याता बहुकला बला ।
इयं कलावती ख्याता मता चैषा क्रियावती ११४।
अतःपरं मुनिगणास्तासां कतिपया इह ।
इयमुग्रतपा नाम एषा बहुगुणा स्मृता ११५।
एषा प्रियव्रता नाम सुव्रता च इयं मता ।
सुरेखेयं मता बाला सुपर्वेयं बहुप्रदा ११६।
रत्नरेखा त्वियं ख्याता मणिग्रीवा त्वसौ मता ।
सुपर्णा चेयमाकल्पा सुकल्पा रत्नमालिका ११७।
इयं सौदामिनी सुभ्रूरियं च कामदायिनी ।
एषा च भोगदाख्या ता इयं विश्वमता सती ११८।
एषा च धारिणी धात्री सुमेधा कांतिरप्यसौ ।
अपर्णेयं सुपर्णैषा मतैषा च सुलक्षणा ११९।
सुदतीयं गुणवती चैषासौ कलिनी मता ।
एषा सुलोचना ख्याता इयं च सुमनाः स्मृता १२०।
अश्रुता च सुशीला च रतिसुखप्रदायिनी ।
अतः परं गोपबाला वयमत्रागतास्तु याः १२१।
तासां च परिचीयंतां काश्चिदंबुरुहानने ।
असौ चंद्रावली चैषा चंद्रिकेयं शुभा मता १२२।
एषा चंद्रावली चंद्ररेखेयं चंद्रिकाप्यसौ ।
एषा ख्याता चंद्रमाला मता चंद्रालिकात्वियम् १२३।
एषा चंद्रप्रभा चंद्रकलेयमबला स्मृता ।
एषा वर्णावली वर्णमालेयं मणिमालिका १२४।
वर्णप्रभा समाख्याता सुप्रभेयं मणिप्रभा ।
इयं हारावली तारा मालिनीयं शुभा मता १२५।
मालतीयमियं यूथी वासंती नवमल्लिका ।
मल्लीयं नवमल्लीयमसौ शेफालिका मता १२६।
सौगंधिकेयं कस्तूरी पद्मिनीयं कुमुद्वती ।
एषैव हि रसोल्लासा चित्रवृंदा समा त्वियम् १२७।
रंभेयमुर्वशी चैषा सुरेखा स्वर्णरेखिका ।
एषा कांचनमालेयं सत्यसंततिका परा १२८।
एताः परिकृताः सर्वाः परिचेयाः परा अपि ।
सहितास्माभिरेताभिर्विहरिष्यसि भामिनि १२९।
एहि पूर्वसरस्तीरे तत्र त्वां विधिवत्सखि ।
स्नापयित्वाथ दास्यामि मंत्रं सिद्धिप्रदायकम् १३०।
इति तां सहसा नीत्वा स्नापयित्वा विधानतः ।
वृंदावनकलानाथ प्रेयस्या मंत्रमुत्तमम् १३१।
ग्राहयामास संक्षेपाद्दीक्षाविधिपुरस्सरम् ।
परं वरुणबीजस्य वह्निबीजपुरस्कृतम् १३२।
चतुर्थस्वरसंयुक्तं नादबिंदुविभूषितम् ।
पुटितं प्रणवाभ्यां च त्रैलोक्ये चातिदुर्ल्लभम् १३३।
मंत्रग्रहणमात्रेण सिद्धिः सर्वा प्रजायते ।
पुरश्चर्याविधिर्ध्यानं होमसंख्याजपस्य च १३४।
तप्तकांचनगौरांगीं नानालंकारभूषिताम् ।
आश्चर्यरूपलावण्यां सुप्रसन्नां वरप्रदाम् १३५।
कल्हारैः करवीराद्यैश्चंपकैः सरसीरुहैः ।
सुगंधकुसुमैरन्यैः सौगंधिकसमन्वितैः १३६।
पाद्यार्घ्याचमनीयैश्च धूपदीपैर्मनोहरैः ।
नैवेद्यैर्विविधैर्दिव्यैः सखीवृंदाहृतैर्मुदा १३७।
संपूज्य विधिवद्देवीं जप्त्वा लक्षमनुं ततः ।
हुत्वा च विधिना स्तुत्वा प्रणम्य दंडवद्भुवि १३८।
ततः सा संस्तुता देवी निमेषरहितांतरा ।
परिकल्प्य निजां छायां माययात्मसमीहया १३९।
पार्श्वेऽथ प्रेयसीं तत्र स्थापयित्वा बलादिव ।
सखीभिरावृता हृष्टा शुद्धैः पूजाजपादिभिः १४०।
स्तवैर्भक्त्या प्रणामैश्च कृपयाविरभूत्तदा ।
हेमचंपकवर्णाभा विचित्राभरणोज्ज्वला १४१।
अंगप्रत्यंगलावण्य लालित्य मधुराकृतिः ।
निष्कलंक शरत्पूर्णकलानाथ शुभानना १४२।
स्निग्धमुग्धस्मितालोक जगत्त्रयमनोहरा ।
निजया प्रभयात्यंतं द्योतयंती दिशो दश १४३।
अब्रवीदथ सा देवी वरदा भक्तवत्सला ।
देव्युवाच-।
मत्सखीनां वचः सत्यं तेन त्वं मे प्रिया सखी १४४।
समुत्तिष्ठ समागच्छ कामं ते साधयाम्यहम् ।
अर्जुनी सा वचो देव्याः श्रुत्वा चात्ममनीषितम् १४५।
पुलकांकुरमुग्धांगी बाष्पाकुलविलोचना ।
पपात चरणे देव्याः पुनश्च प्रेमविह्वला १४६।
ततः प्रियंवदां देवीं समुवाच सखीमिमाम् ।
पाणौ गृहीत्वा मत्संगे समाश्वास्य समानय १४७।
ततः प्रियंवदा देव्या आज्ञया जातसंभ्रमा ।
तां तथैव समादाय संगे देव्या जगाम ह १४८।
गत्वोत्तरसरस्तीरे स्नापयित्वा विधानतः ।
संकल्पादिकपूर्वं तु पूजयित्वा यथाविधि १४९।
श्रीगोकुलकलानाथमंत्रं तच्च सुसिद्धिदम् ।
ग्राहयामास तां देवी कृपया हरिवल्लभा १५०।
व्रतं गोकुलनाथाख्यं पूर्वं मोहनभूषितम् ।
सर्वसिद्धिप्रदं मंत्रं सर्वतंत्रेषु गोपितम् १५१।
गोविंदेरितविज्ञासौ ददौ भक्तिमचंचलाम् ।
ध्यानं च कथितं तस्यै मंत्रराजं च मोहनम् १५२।
उक्तं च मोहने तंत्रे स्मृतिरप्यस्य सिद्धिदा ।
नीलोत्पलदलश्यामं नानालंकारभूषितम् १५३।
कोटिकंदर्पलावण्यं ध्यायेद्रासरसाकुलम् ।
प्रियंवदामुवाचेदं रहस्यं पावनेच्छया १५४।
श्रीराधिकोवाच-।
अस्या यावद्भवेत्पूर्णं पुरश्चरणमुत्तमम् ।
तावद्धि पालयैनां त्वं सावधाना सहालिभिः १५५।
इत्युक्त्वा सा ययौ कृष्णपादांबुरुहसन्निधिम् ।
छायामात्मभवामात्मप्रेयसीनां निधाय च १५६।
तस्थौ तत्र यथापूर्वं राधिका कृष्णवल्लभा ।
अत्र प्रियंवदादेशात्पद्ममष्टदलं शुभम् १५७।
गोरोचनाभिर्निर्माय कुंकुमेनापि चंदनैः ।
एभिर्नानाविधैर्द्रव्यैः संमिश्रैः सिद्धिदायकम् १५८।
लिखित्वा यंत्रराजं च शुद्धं मंत्रं तमद्भुतम् ।
कृत्वा न्यासादिकं पाद्यमर्घ्यं चापि यथाविधि १५९।
नानर्तुसंभवैः पुष्पैः कुंकुमैरपि चंदनैः ।
धूपदीपैश्च नैवेद्यैस्तांबूलैर्मुखवासनैः १६०।
वासोलंकारमाल्यैश्च संपूज्य नंदनंदनम् ।
परिवारैः समं सर्वैः सायुधं च सवाहनम् १६१।
स्तुत्वा प्रणम्य विधिवच्चेतसा स्मरणं ययौ ।
ततो भक्तिवशो देवो यशोदानंदनः प्रभुः १६२।
स्मितावलोकितापांग तरंगिततरेंगितम् ।
उवाच राधिकां देवीं तामानय इहाशु च १६३।
आज्ञप्ता चैव सा देवी प्रस्थाप्य शारदां सखीम् ।
तामानिनाय सहसा पुरोवासुरसात्मनः १६४।
श्रीकृष्णस्य पुरस्तात्सा समेत्य प्रेमविह्वला ।
पपात कांचनीभूमौ पश्यंती सर्वमद्भुतम् १६५।
कृच्छ्रात्कथंचिदुत्थाय शनैरुन्मील्य लोचने ।
स्वेदांभः पुलकोत्कंप भावभाराकुलासती १६६।
ददर्श प्रथमं तत्र स्थलं चित्रं मनोरमम् ।
ततः कल्पतरुस्तत्र लसन्मरकतच्छदः १६७।
प्रवालपल्लवैर्युक्तः कोमलो हेमदंडकः ।
स्फटिकप्रवालमूलश्च कामदः कामसंपदाम् १६८।
प्रार्थकाभीष्टफलदस्तस्याधो रत्नमंदिरम् ।
रत्नसिंहासनं तत्र तत्राष्टदलपद्मकम् १६९।
शंखपद्मनिधी तत्र स व्यापसव्यसंस्थितौ ।
चतुर्दिक्षु यथा स्थानं सहिताः कामधेनवः १७०।
परितो नंदनोद्यानं मलयानिलसेवितम् ।
ऋतूनां चैव सर्वेषां कुसुमानां मनोहरैः १७१।
आमोदैर्वासितं सर्वं कालागुरुपराजितम् ।
मकरंदकणावृष्टिशीतलं सुमनोहरम् १७२।
मकरंदरसास्वाद मत्तानां भृंगयोषिताम् ।
वृंदशो झंकृतैः शश्वच्चैवं मुखरितांतरम् १७३।
कलकंठी कपोतानां सारिकाशुकयोषिताम् ।
अन्यासां पत्रिकांतानां कलनादैर्निनादितम् १७४।
नृत्यैर्मत्तमयूराणामाकुलं स्मरवर्द्धनम् ।
रसांबुसेकसंसृष्ट तमांजनतनुद्युतिम् १७५।
सुस्निग्धनीलकुटिल कषायावासिकुंतलम् ।
मदमत्तमयूराद्य शिखंडाबद्धचूडकम् १७६।
भृंगसेवितसव्योपक्रमपुष्पावतंसकम् ।
लोलालकालिविलसत्कपोलादर्शकाशितम् १७७।
विचित्रतिलकोद्दाम भालशोभाविराजितम् ।
तिलपुष्पपतंगेश चंचुमंजुलनासिकम् १७८।
चारुबिंबाधरं मंदस्मितदीपितमन्मथम् ।
वन्यप्रसूनसंकाश ग्रैवेयकमनोहरम् १७९।
मदोन्मत्तभ्रमद्भृंगी सहस्रकृतसेवया ।
सुरद्रुमस्रजाराजन्मुग्धपीनांसकद्वयम् १८०।
मुक्ताहारस्फुरद्वक्षः स्थलकौस्तुभभूषितम् ।
श्रीवत्सलक्षणं जानुलंबिबाहुमनोहरम् १८१।
गंभीरनाभिपंचास्य मध्यमध्यातिसुंदरम् ।
सुजातद्रुमसद्वृत्त मदूरजानुमंजुलम् १८२।
कंकणांगदमञ्जीरैर्भूषितं भूषणैः परैः ।
पीतांशुकलयाविष्ट नितंबघटनायकम् १८३।
लावण्यैरपि सौंदर्यजितकोटिमनोभवम् ।
वेणुप्रवर्त्तितैर्गीतरागैरपि मनोहरैः १८४।
मोहयंतं सुखांभोधौ मज्जयंतं जगत्त्रयम् ।
प्रत्यंगमदनावेशधरं रासरसालसम् १८५।
चामरं व्यजनं माल्यं गंधंचंदनमेव च ।
तांबूलं दर्पणं पानपात्रं चर्वितपात्रकम् १८६।
अन्यत्क्रीडाभवं यद्यत्तत्सर्वं च पृथक्पृथक् ।
रसालं विविधं यंत्रं कलयंतीभिरादरात् १८७।
यथास्थाननियुक्ताभिः पश्यंतीभिस्तदिंगितम् ।
तन्मुखांभोजदत्ताक्षि चंचलाभिरनुक्रमात् १८८।
श्रीमत्या राधिका देव्या वामभागे ससंभ्रमम् ।
आराधयंत्या तांबूलमर्पयंत्या शुचिस्मितम् १८९।
समालोक्यार्जुनी यासौ मदनावेशविह्वला ।
ततस्तां च तथा ज्ञात्वा हृषीकेशोऽपि सर्ववित् १९०।
तस्याः पाणिं गृहीत्वैव सर्वक्रीडावनांतरे ।
यथाकामं रहो रेमे महायोगेश्वरो विभुः १९१।
ततस्तस्याः स्कंधदेशे प्रदत्तभुजपल्लवः ।
आगत्य शारदां प्राह पश्चिमेऽस्मिन्सरोवरे १९२।
शीघ्रं स्नापय तन्वंगीं क्रीडाश्रांतां मृदुस्मिताम् ।
ततस्तां शारदा देवी तस्मिन्क्रीडासरोवरे १९३।
स्नानं कुर्वित्युवाचैनां सा च श्रांता तथाकरोत् ।
जलाभ्यंतरमाप्तासौ पुनरर्जुनतां गतः १९४।
उत्तस्थौ यत्र देवेशः श्रीमद्वैकुंठनायकः ।
दृष्ट्वा तमर्जुनं कृष्णो विषण्णं भग्नमानसम् १९५।
मायया पाणिना स्पृष्ट्वा प्रकृतं विदधे पुनः ।
श्रीकृष्ण उवाच-।
धनंजय त्वामाशंसे भवान्प्रियसखो मम १९६।
त्वत्समो नास्ति मे कोपि रहोवेत्ता जगत्त्रये ।
यद्रहस्यं त्वया पृष्टमनुभूतं च तत्पुनः १९७।
कथ्यते यदि तत्कस्मै शपसे मां तदार्जुन ।
सनत्कुमार उवाच-।
इति प्रसादमासाद्य शपथैर्जातनिर्णयः १९८।
ययौ हृष्टमनास्तस्मात्स्वधामाद्भुतसंस्मृतिः ।
इति ते कथितं सर्वं रहो यद्गोचरं मम १९९।
गोविंदस्य तथा चास्मै कथने शपथस्तव ।
ईश्वर उवाच-।
इति श्रुत्वा वचस्तस्य सिद्धिमौपगविर्गतः २००।
नरनारायणावासं वृंदारण्यमुपाव्रजत् ।
तत्रास्तेऽद्यापि कृष्णस्य नित्यलीलाविहारवित् २०१।
नारदेनापिपृष्टोऽहं नाब्रवं तद्रहस्यकम् ।
प्राप्तं तथापि तेनेदं प्रकृतित्वमुपेत्यच २०२।
तुभ्यं यत्तु मया प्रोक्तं रहस्यं स्नेहकारणात् ।
तन्नकस्मैचिदाख्येयं त्वया भद्रे स्वयोनिवत् २०३।
इमं श्रीभगवद्भक्तमहिमाध्यायमद्भुतम् ।
यः पठेच्छृणुयाद्वापि स रतिं विंदते हरौ २०४।
इति श्रीपद्मपुराणे पातालखंडे अर्जुन्यनुनयोनाम चतुःसप्ततितमोऽध्यायः ७४।