पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०७३
← अध्यायः ०७२ | पद्मपुराणम् अध्यायः ०७३ वेदव्यासः |
अध्यायः ०७४ → |
ईश्वर उवाच-।
यत्त्वया पृष्टमाश्चर्यं तन्मया भाषितं क्रमात् ।
यत्र मुह्यंति ब्रह्माद्यास्तत्र को वा न मुह्यति १।
तथापि ते प्रवक्ष्यामि यदुक्तं परमर्षिणा ।
महाराजमंबरीषं विष्णुभक्तं शिवान्वितम् २।
बदर्याश्रममासाद्य समासीनं जितेंद्रियम् ।
राजा प्रणम्य तुष्टाव विष्णुधर्मविवित्सया ३।
वेदव्यासं महाभागं सर्वज्ञं पुरुषोत्तमम् ।
मां त्वं संसारदुष्पारे परित्रातुमिहार्हसि ४।
विषयेषु विरक्तोऽस्मि नमस्तेभ्यो नमोखिलम् ।
यत्तत्पदमनुद्विग्नं सच्चिदानंदविग्रहम् ५।
परं ब्रह्म पराकाशमनाकाशमनामयम् ।
यत्साक्षात्कृत्य मुनयो भवांभोधिं तरंति हि ६।
तत्राहं मनसो नित्यं कथं गतिमवाप्नुयाम् ।
व्यास उवाच-।
अतिगोप्यं त्वया पृष्टं यन्मया न शुकं प्रति ७।
गदितं स्वसुतं किंतु त्वां वक्ष्यामि हरिप्रियम् ।
आसीदिदं परं विश्वं यद्रूपं यत्प्रतिष्ठितम् ८।
अव्याकृतमव्यथितं तदीश्वरमयं शृणु ।
मया कृतं तपः पूर्वं बहुवर्षसहस्रकम् ९।
फलमूलपलाशांबु वाय्वाहारनिषेविणा ।
ततो मामाहभगवान्स्वध्याननिरतं हरिः १०।
कस्मिन्नर्थे चिकीर्षाते विवित्सा वा महामते ।
प्रसन्नोऽस्मि वृणुष्व त्वं वरं च वरदर्षभात् ११।
मद्दर्शनांतः संसार इति सत्यं ब्रवीमि ते ।
ततोऽहमब्रुवं कृष्णं पुलकोत्फुल्लविग्रहः १२।
त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन ।
यत्तत्सत्यं परं ब्रह्म जगज्ज्योतिं जगत्पतिम् १३।
वदंति वेदशिरसश्चाक्षुषं नाथमद्भुतम् ।
श्रीभगवानुवाच-।
ब्रह्मणैवं पुरा पृष्टः प्रार्थितश्च यथा पुरा १४।
यदवोचमहं तस्मै तत्तुभ्यमपि कथ्यते ।
मामेके प्रकृतिं प्राहुः पुरुषं च तथेश्वरम् १५।
धर्ममेके धनं चैके मोक्षमेकेऽकुतोभयम् ।
शून्यमेके भावमेके शिवमेके सदाशिवम् १६।
अपरे वेदशिरसि स्थितमेकं सनातनम् ।
सद्भावं विक्रियाहीनं सच्चिदानंदविग्रहम् १७।
पश्याद्य दर्शयिष्यामि स्वरूपं वेदगोपितम् ।
ततोऽपश्यं भूपबालमहं कालांबुदप्रभम् १८।
गोपकन्यावृतं गोपं हसंतं गोपबालकैः ।
कदंबमूलआसीनं पीतवाससमद्भुतम् १९।
वनं वृंदावनं नाम नवपल्लवमंडितम् ।
कोकिलभ्रमरारावं मनोभव मनोहरम् २०।
नदीमपश्यं कालिंदीमिंदीवरदलप्रभाम् ।
गोवर्द्धनमथापश्यं कृष्णरामकरोद्धृतम् २१।
महेंद्रदर्पनाशाय गोगोपालसुखावहम् ।
गोपालमबलासंगमुदितं वेणुवादिनम् २२।
दृष्ट्वातिहृष्टो ह्यभवं सर्वभूषणभूषणम् ।
ततो मामाह भगवान्वृंदावनचरः स्वयम् २३।
यदिदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ।
निष्कलं निष्क्रियं शांतं सच्चिदानंदविग्रहम् २४।
पूर्णं पद्मपलाशाक्षं नातः परतरं मम ।
इदमेववदंत्येतेवेदाःकारणकारणम् २५।
सत्यंनित्यंपरानंदंचिद्घनंशाश्वतंशिवम् ।
नित्यां मे मथुरां विद्धि वनं वृंदावनं तथा २६।
यमुनां गोपकन्याश्च तथा गोपालबालकाः ।
ममावतारो नित्योऽयमत्र मा संशयं कृथाः २७।
ममेष्टा हि सदा राधा सर्वज्ञोऽहं परात्परः ।
सर्वकामश्च सर्वेशः सर्वानंदः परात्परः २८।
मयि सर्वमिदं विश्वं भाति मायाविजृंभितम् ।
ततोऽहमब्रुवं देवं जगत्कारणकारणम् २९।
काश्च गोप्यस्तु के गोपा वृक्षोऽयं कीदृशो मतः ।
वनं किं कोकिलाद्याश्च नदी केयं गिरिश्च कः ३०।
कोऽसौ वेणुर्महाभागो लोकानंदैकभाजनम् ।
भगवानाह मां प्रीतः प्रसन्नवदनांबुजः ३१।
गोप्यस्तु श्रुतयो ज्ञेया ऋचो वै गोपकन्यकाः ।
देवकन्याश्च राजेंद्र तपोयुक्ता मुमुक्षवः ३२।
गोपाला मुनयः सर्वे वैकुंठानंदमूर्त्तयः ।
कल्पवृक्षः कदंबोऽयं परानंदैकभाजनम् ३३।
वनमानंदकाख्यं हि महापातकनाशनम् ।
सिद्धाश्च साध्या गंधर्वाः कोकिलाद्या न संशयः ३४।
केचिदानंदहृदयं साक्षाद्यमुनया तनुम् ।
अनादिर्हरिदासोऽयं भूधरो नात्र संशयः ३५।
वेणुर्यः शृणुतं विप्रं तवापि विदितं तथा ।
द्विज आसीच्छांतमनास्तपः शांतिपरायणः ३६।
नाम्ना देवव्रतोदांतः कर्मकांडविशारदः ।
स वैष्णवजनव्रातमध्यवर्त्ती क्रियापरः ३७।
स कदाचन शुश्राव यज्ञेशोऽस्तीति भूपते ।
तस्य गेहमथाभ्यागाद्द्विजो मद्गतनिश्चयः ३८।
स मद्भक्तः क्वचित्पूजां तुलसीदलवारिणा ।
कृतवांस्तद्गृहे किंचित्फलं मूलं न्यवेदयत् ३९।
स्नानवारिफलं किंचित्तस्मै मत्या ददौ सुधीः ।
अश्रद्धया स्मितं कृत्वा सोऽप्यगृह्णाद्द्विजन्मनः ४०।
तेन पापेन संजातं वेणुत्वमतिदारुणम् ।
तेन पुण्येन तस्याथ मदीय प्रियतां गतः ४१।
अमुना सोपि राजेंद्र केतुमानिव राजते ।
युगांते तद्विष्णुपरो भूत्वा ब्रह्म समाप्स्यति ४२।
अहो न जानंति नरा दुराशयाः पुरीं मदीयां परमां सनातनीम् ।
सुरेंद्र नागेंद्र मुनींद्र संस्तुतां मनोरमां तां मथुरां पुरातनीम् ४३।
काश्यादयो यद्यपि संति पुर्यस्तासां तु मध्ये मथुरैव धन्या ।
यज्जन्ममौंजीव्रतमृत्युदाहैर्नृणां चतुर्द्धा विदधाति मुक्तिम् ४४।
यदा विशुद्धास्तपआदिना जनाः शुभाशया ध्यानधना निरंतरम् ।
तदैव पश्यंति ममोत्तमां पुरीं न चान्यथा कल्पशतैर्द्विजोत्तमाः ४५।
मथुरावासिनो धन्या मान्या अपि दिवौकसाम् ।
अगण्यमहिमानस्ते सर्व एव चतुर्भुजाः ४६।
मथुरावासिनो ये तु दोषान्पश्यंति मानवाः ।
तेषु दोषं न पश्यंति जन्ममृत्युसहस्रजम् ४७।
अधना अपि ते धन्या मथुरां ये स्मरंति ते ।
यत्र भूतेश्वरो देवो मोक्षदः पापिनामपि ४८।
मम प्रियतमो नित्यं देवो भूतेश्वरः परः ।
यः कदापि मम प्रीत्यै न संत्यजति तां पुरीम् ४९।
भूतेश्वरं यो न नमेन्न पूजयेन्न वास्मरेद्दुश्चरितो मनुष्यः ।
नैनां स पश्येन्मथुरां मदीयां स्वयंप्रकाशां परदेवताख्याम् ५०।
न कथं मयि भक्तिं स लभते पापपूरुषः ।
यो मदीयं परं भक्तं शिवं संपूजयेन्नहि ५१।
मन्मायामोहितधियः प्रायस्ते मानवाधमाः ।
भूतेश्वरं न नमंति न स्मरंति स्तुवंति ये ५२।
बालकोऽपि ध्रुवो यत्र ममाराधनतत्परः ।
प्राप स्थानं परं शुद्धं यत्नयुक्तं पितामहैः ५३।
तां पुरीं प्राप्य मथुरां मदीयां सुरदुर्लभाम् ।
खंजो भूत्वांधको वापि प्राणानेव परित्यजेत् ५४।
वेदव्यासमहाभाग मा कृथाः संशयं क्वचित् ।
रहस्यं वेदशिरसां यन्मया ते प्रकाशितम् ५५।
इमं भगवता प्रोक्तमध्यायं यः पठेच्छुचिः ।
शृणुयाद्वापि यो भक्त्या मुक्तिस्तस्यापि शाश्वती ५६।
इति श्रीपद्मपुराणे पातालखंडे वृंदावनादिमथुरामाहात्म्यकथनंनाम त्रिसप्ततितमोऽध्यायः ७३।