पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०१६

विकिस्रोतः तः
← अध्यायः ०१५ पद्मपुराणम्
अध्यायः ०१६
वेदव्यासः
अध्यायः ०१७ →

सुमतिरुवाच।
एवं तया क्रीडमानः सर्वत्र धरणीतले ।
नाबुध्यत गतानब्दाञ्छतसंख्या परीमितान् १।
ततो ज्ञात्वाथव तद्विप्रः स्वकालपरिवर्तिनीम् ।
मनोरथैश्च संपूर्णां स्वस्यप्रियतमां वराम् २।
न्यवर्तताश्रमं श्रेष्ठं पयोष्णीतीरसंस्थितम् ।
निर्वैरजं तु जनतासंकुलं मृगसेवितम् ३।
तत्रावसत्स सुतपाः शिष्यैर्वेदसमन्वितैः ।
सेवितांघ्रियुगो नित्यं तताप परमं तपः ४।
कदाचिदथ शर्यातिर्यष्टुमैच्छत देवताः ।
तदा च्यवनमानेतुं प्रेषयामास सेवकान् ५।
तैराहूतो द्विजवरस्तत्रागच्छन्महातपाः ।
सुकन्यया धर्मपत्न्या स्वाचार परिनिष्ठया ६।
आगतं तं मुनिवरं पत्न्या पुत्र्या महायशाः ।
ददर्श दुहितुः पार्श्वे पुरुषं सूर्यवर्चसम् ७।
राजा दुहितरं प्राह कृतपादाभिवंदनाम् ।
आशिषो न प्रयुंजानो नातिप्रीतमना इव ८।
चिकीर्षितं ते किमिदं पतिस्त्वया ।
प्रलंभितो लोकनमस्कृतो मुनिः ।
त्वया जराग्रस्तमसंमतं पतिं ।
विहाय जारं भजसेऽमुमध्वगम् ९।
कथं मतिस्तेऽवगतान्यथासतां कुलप्रसूतेः कुलदूषणं त्विदम् ।
बिभर्षि जारं यदपत्रपाकुलं पितुः स्वभर्तुश्च नयस्यधस्तमाम् १०।
एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता ।
उवाच तात जामाता तवैष भृगुनंदनः ११।
शशंस पित्रे तत्सर्वं वयोरूपाभिलंभनम् ।
विस्मितः परमप्रीतस्तनयां परिषस्वजे १२।
सोमेनायाजयद्वीरं ग्रहं सोमस्य चाग्रहीत् ।
असोमपोरप्यश्विनोश्च्यवनः स्वेन तेजसा १३।
ग्रहं तु ग्राहयामास तपोबलसमन्वितः ।
वज्रं गृहीत्वा शक्रस्तु हंतुं ब्राह्मणसत्तमम् १४।
अपंक्तिपावनौ देवौ कुर्वाणं पंक्तिगोचरौ ।
शक्रं वज्रधरं दृष्ट्वा मुनिः स्वहननोद्यतम् १५।
हुंकारमकरोद्धीमान्स्तंभयामास तद्भुजम् ।
इंद्रः स्तब्धभुजस्तत्र दृष्टः सर्वैश्च मानवैः १६।
कोपेन श्वसमानोऽहिर्यथा मंत्रनियंत्रितः ।
तुष्टाव स मुनिं शक्रः स्तब्धबाहुस्तपोनिधिम् १७।
अश्विभ्यां भागदानं च कुर्वंतं निर्भयांतरम् ।
कथयामास भोः स्वामिन्दीयतामश्विनोर्बलि १८।
मया न वार्यते तात क्षमस्वाघं महत्कृतम् ।
इत्युक्तः स मुनिः कोपं जहौ तूर्णं कृपानिधिः १९।
इंद्रो मुक्तभुजोऽप्यासीत्तदानीं पुरुषर्षभ ।
एतद्वीक्ष्य जनाः सर्वे कौतुकाविष्टमानसाः २०।
शशंसुर्ब्राह्मणबलं ते तु देवादिदुर्ल्लभम् ।
ततो राजा बहुधनं ब्राह्मणेभ्योऽददन्महान् २१।
चक्रे चावभृथस्नानं यागांते शत्रुतापनः ।
त्वया पृष्टं यदाचक्ष्व च्यवनस्य महोदयम् २२।
स मया कथितः सर्वस्तपोयोगसमन्वितः ।
नमस्कृत्वा तपोमूर्तिमिमं प्राप्य जयाशिषः २३।
प्रेषय त्वं सपत्नीकं रामयज्ञे मनोरमे ।
शेष उवाच।
एवं तु कुर्वतोर्वार्तां हयः प्रापाश्रमं प्रति २४।
विदधद्वायुवेगेन पृथ्वीं खुरविलक्षिताम् ।
दूर्वांकुरान्मुखाग्रेण चरंस्तत्र महाश्रमे २५।
मुनयो यावदादाय दर्भान्स्नातुं गता नदीम् ।
शत्रुघ्नः शत्रुसेनायास्तापनः शूरसंमतः २६।
तावत्प्राप मुनेर्वासं च्यवनस्यातिशोभितम् ।
गत्वा तदाश्रमे वीरो ददर्श च्यवनं मुनिम् २७।
सुकन्यायाः समीपस्थं तपोमूर्तिमिवस्थितम् ।
ववंदे चरणौ तस्य स्वाभिधां समुदाहरन् २८।
शत्रुघ्नोहं रघुपतेर्भ्राता वाहस्य पालकः २९।
नमस्करोमि युष्मभ्यं महापापोपशांतये ।
इति वाक्यं समाकर्ण्य जगाद मुनिसत्तमः ३०।
शत्रुघ्न तव कल्याणं भूयान्नरवरर्षभ ।
यज्ञं पालयमानस्य कीर्तिस्ते विपुला भवेत् ३१।
चित्रं पश्यत भो विप्रा रामोऽपि मखकारकः ।
यन्नामस्मरणादीनि कुर्वंति पापनाशनम् ३२।
महापातकसंयुक्ताः परदाररता नराः ।
यन्नामस्मरणोद्युक्ता मुक्ता यांति परां गतिम् ३३।
पादपद्मसमुत्थेन रेणुना ग्रावमूर्तिभृत् ।
तत्क्षणाद्गौतमार्धांगी जाता मोहनरूपधृक् ३४।
मामकीयस्य रूपस्य ध्यानेन प्रेमनिर्भरा ।
सर्वपातकराशिं सा दग्ध्वा प्राप्ता सुरूपताम् ३५।
दैत्या यस्य मनोहारिरूपं प्रधनमण्डले ।
पश्यंतः प्रापुरेतस्य रूपं विकृतिवर्जितम् ३६।
योगिनो ध्याननिष्ठा ये यं ध्यात्वा योगमास्थिताः ।
संसारभयनिर्मुक्ताः प्रयाताः परमं पदम् ३७।
धन्योऽहमद्य रामस्य मुखं द्रक्ष्यामि शोभनम् ।
पयोजदलनेत्रांतं सुनसं सुभ्रुसून्नतम् ३८।
सा जिह्वा रघुनाथस्य नामकीर्तनमादरात् ।
करोति विपरीता या फणिनो रसना समा ३९।
अद्य प्राप्तं तपःपुण्यमद्य पूर्णा मनोरथाः ।
यद्द्रक्ष्ये रामचंद्रस्य मुखं ब्रह्मादिदुर्ल्लभम् ४०।
तत्पादरेणुना स्वांगं पवित्रं विदधाम्यहम् ।
विचित्रतरवार्ताभिः पावये रसनां स्वकाम् ४१।
इत्यादि रामचरणस्मरणप्रबुद्ध-
प्रेमव्रजप्रसृतगद्गदवागुदश्रुः ।
श्रीरामचंद्र रघुपुंगवधर्ममूर्ते
भक्तानुकंपकसमुद्धर संसृतेर्माम् ४२।
जल्पन्नश्रुकलापूर्णो मुनीनां पुरतस्तदा ।
नाज्ञासीत्तत्र पारक्यं निजं ध्यानेन संस्थितः ४३।
शत्रुघ्नस्तं मुनिं प्राह स्वामिन्नो मखसत्तमः ।
क्रियतां भवता पादरजसा सुपवित्रितः ४४।
महद्भाग्यं रघुपतेर्यद्युष्मन्मानसांतरे ।
तिष्ठत्यसौ महाबाहुः सर्वलोकसुपूजितः ४५।
इत्युक्तः सपरीवारः सर्वाग्निपरिसंवृतः ।
जगाम च्यवनस्तत्र प्रमोदह्रदसंप्लुतः ४६।
हनूमांस्तं पदायांतं रामभक्तमवेक्ष्य ह ।
शत्रुघ्नं निजगादासौ वचो विनयसंयुतः ४७।
स्वामिन्कथयसि त्वं चेन्महापुरुषसुंदरम् ।
रामभक्तं मुनिवरं नयामि स्वपुरीमहम् ४८।
इति श्रुत्वा महद्वाक्यं कपिवीरस्य शत्रुहा ।
आदिदेश हनूमंतं गच्छ प्रापयतं मुनिम् ४९।
हनूमांस्तं मुनिं स्वीये पृष्ठ आरोप्य वेगवान् ।
सकुटुंबं निनायाशु वायुः ख इव सर्वगः ५०।
आगतं तं मुनिं दृष्ट्वा रामो मतिमतां वरः ।
अर्घ्यपाद्यादिकं चक्रे प्रीतः प्रणयविह्वलः ५१।
धन्योऽस्मि मुनिवर्यस्य दर्शनेन तवाधुना ।
पवित्रितो मखो मह्यं सर्वसंभारसंभृतः ५२।
इति वाक्यं समाकर्ण्य च्यवनो मुनिसत्तमः ।
उवाच प्रेमनिर्भिन्न पुलकांगोऽतिनिर्वृतः ५३।
स्वामिन्ब्रह्मण्यदेवस्य तव वाडवपूजनम् ।
युक्तमेव महाराज धर्ममार्गं प्ररक्षितुः ५४।
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे च्यवनाश्रमे हयगमनोनाम षोडशोऽध्यायः १६ ।