मुद्गलोपनिषत्
दिखावट
मुद्गलोपनिषत्
[सम्पाद्यताम्]- ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥
- वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीरनेनाधीते नाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥
- तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥
॥प्रथम: खण्ड:॥
[सम्पाद्यताम्]- ॐ पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामः
- पुरुषसंहितायां पुरुषसूक्तार्थः संग्रहेण प्रोच्यते ।
- सहस्रशीर्षेत्यत्र सशब्दोऽनन्तवाचकः ।
- अनन्तयोजनं प्राह दशाङ्गुलवचस्तथा ॥ १॥
- तस्य प्रथमया विष्णोर्देशतो व्याप्तिरीरिता ।
- द्वितीयया चास्य विष्णोः कालतो व्याप्तिरुच्यते ॥ २॥
- विष्णोर्मोक्षप्रदत्वं च कथितं तु तृतीयया ।
- एतावानिति मन्त्रेण वैभवं कथितं हरेः ॥ ३॥
- एतेनैव च मन्त्रेण चतुर्व्यूहो विभाषितः ।
- त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् ॥ ४॥
- तस्माद्विराडित्यनया पादनारायणाद्धरेः ।
- प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता ॥ ५॥
- यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः ।
- सप्तास्यासन्परिधयः समिधश्च समीरिताः ॥ ६॥
- तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः ।
- अनेनैव च मन्त्रेण मोक्षश्च समुदीरितः ॥ ७॥
- तस्मादिति च मन्त्रेण जगत्सृष्टिः समीरिता ।
- वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ॥ ८॥
- यज्ञेनेत्युपसंहारः सृष्टेर्मोक्षस्य चेरितः ।
- य एवमेतज्जानाति स हि मुक्तो भवेदिति ॥ ९॥
॥द्वितिय: खण्ड:॥
[सम्पाद्यताम्]- अथ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं विस्तरेण प्रतिपादितम् ।
- वासुदेव इन्द्राय भगवज्ज्ञानमुपदिश्य पुनरपि सूक्ष्मश्रवणाय प्रणतायेन्द्राय परमरहस्यभूतं पुरुषसूक्ताभ्यां खण्डद्वयाभ्यामुपादिशत् ॥१॥
- द्वौ खण्डावुच्येते ।
- योऽय मुक्तः स पुरुषो नामरूपज्ञानागोचरं संसारिणामतिदुर्ज्ञेयं विषयं विहाय क्लेशादिभिः संक्लिष्टदेवादिजिहीर्षया सहस्रकलावयवकल्याणं दृष्टमात्रेण मोक्षदं वेषमाददे ।
- तेन वेषेण भूम्यादिलोकं व्याप्यानन्तयोजनमत्यतिष्ठत् ॥२॥
- पुरुषो नारायणो भूतं भव्यं भविष्यच्चासीत् ।
- स एष सर्वेषा मोक्षदस्चासीत् ।
- स च सर्वस्मान्महिम्नो ज्यायान् ।
- तस्मान्न कोऽपि ज्यायान् ॥३॥
- महापुरुष आत्मानं चतुर्धा कृत्वा त्रिपादेन परमे व्योम्नि चासीत् ।
- इतरेण चतुर्थेनानिरुद्धनारायणेन विश्वान्यासन् ॥४॥
- स च पादनारायणो जगत्स्रष्टुं प्रकृतिमजनयत् ।
- स समृद्धकायः सन्सृष्टिकर्म न जज्ञिवान् ।
- सोऽनिरुद्धनारायणस्तस्मै सृष्टिमुपादिशत् ।
- ब्रह्मंस्तवेन्द्रियाणि याजकानि ध्यात्वा कोशभूतं दृढं ग्रन्थिकलेवरं हविर्ध्यात्वा मां हविर्भुजं ध्यात्वा वसन्तकालमाज्यं ध्यात्वा ग्रीष्ममिध्मं ध्यात्वा शरदृतुं रसं ध्यात्वैवमग्नौ हुत्वाङ्गस्पर्शात्कलेवरो वज्रं हीष्यते ।
- ततः स्वकार्यान्सर्वप्राणिजीवान्सृष्ट्वा पश्वाद्याः प्रादुर्भविष्यन्ति ।
- ततः स्थावरजङ्गमात्मकं जगद्भविष्यति ॥५॥
- एतेन जीवात्मनोर्योगेन मोक्षप्रकारश्च कथित इत्यनुसन्धेयम् ॥६॥
- य इमं सृष्टियज्ञं जानाति मोक्षप्रकारं च सर्वमायुरेति ॥७॥
॥तृतीय: खण्ड:॥
[सम्पाद्यताम्]- एको देवो बहुधा निविष्ट अजायमानो बहुधा विजायते ॥१॥
- तमेतमग्निरित्यध्वर्यव उपासते ।
- यजुरित्येष हीदं सर्वं युनक्ति ।
- सामेति छ्न्दोगाः ।
- एतस्मिन्हीदं सर्वं प्रतिष्ठितम् ।
- विषमिति सर्पाः ।
- सर्प इति सर्पविदः ।
- ऊर्गिति देवाः ।
- रयिरिति मनुष्याः ।
- मायेत्यसुराः ।
- स्वधेति पितरः ।
- देवजन इति देवजनविदः ।
- रूपमिति गन्धर्वाः ।
- गन्धर्व इत्यप्सरसः ॥२॥
- तं यथायथोपासते तथैव भवति ।
- तस्माद्ब्राह्मणः पुरुषरूपं परंब्रह्मैवाहमिति भावयेत् ।
- तद्रूपो भवति ।
- य एवं वेद ॥ ३॥
॥चतुर्थ: खण्ड:॥
[सम्पाद्यताम्]- तद्ब्रह्म तापत्रयातीतं षट्कोशविनिर्मुक्तं षडूर्मिवर्जितं पञ्चकोशातीतं षड्भावविकारशून्यमेवमादि सर्वविलक्षणं भवति ॥१॥
- तापत्रयं त्वाध्यात्मिकाधिभौतिकाधिदैविकं कर्तृकर्मकार्यज्ञातृज्ञानज्ञेय भोक्तृभोगभोग्यमिति त्रिविधम् ॥२॥
- त्वङ्मांसशोणितास्थि स्नायुमज्जाः षट्कोशाः ॥३॥
- कामक्रोधलोभमोहमदमात्सर्यमित्यरिषड्वर्गः ॥४॥
- अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया इति पञ्चकोशाः ॥५॥
- प्रियात्मजननवर्धनपरिणामक्षयनाशाः षड्भावाः ॥६॥
- अशनायापिपासाशोकमोहजरामरणानीति षडूर्मयः ॥७॥
- कुलगोत्रजातिवर्णाश्रमरूपाणि षड्भ्रमाः ॥८॥
- एतद्योगेन परमपुरुषो जीवो भवति नान्यः ॥९॥
- य एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति ।
- स वायुपूतो भवति ।
- स आदित्यपूतो भवति ।
- अरोगी भवति ।
- श्रीमांश्च भवति ।
- पुत्रपौत्रादिभिः समृद्धो भवति ।
- विद्वांश्च भवति ।
- महापातकात्पूतो भवति ।
- सुरापानात्पूतो भवति ।
- अगम्यागमनात्पूतो भवति ।
- मातृगमनात्पूतो भवति ।
- दुहितृस्नुषाभिगमनात्पूतो भवति ।
- स्वर्णस्तेयात्पूतो भवति ।
- वेदिजन्महानात्पूतो भवति ।
- गुरोरशुश्रूषणात्पूतो भवति ।
- अयाज्ययाजनात्पूतो भवति ।
- अभक्ष्यभक्षणात्पूतो भवति ।
- उग्रप्रतिग्रहात्पूतो भवति ।
- परदारगमनात्पूतो भवति ।
- कामक्रोधलोभमोहेर्ष्यादिभिरबाधितो भवति ।
- सर्वेभ्यः पापेभ्यो मुक्तो भवति ।
- इह जन्मनि पुरुषो भवति ॥१०॥
- तस्मादेत त्पुरुषसूक्तार्थमतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि गुह्यतरं नादीक्षितायोपदिशेत् ।
- नानूचानाय ।
- नायज्ञशीलाय ।
- नावैष्णवाय ।
- नायोगिने ।
- न बहुभाषिणे ।
- नाप्रियवादिने ।
- नासंवत्सरवेदिने ।
- नातुष्टाय ।
- नानधीतवेदायोपदिशेत् ॥११॥
- गुरुरप्येवंविच्छुचौ देशे पुण्यनक्षत्रे प्राणानायम्य पुरुषं ध्यायन्नुपसन्नाय शिष्याय दक्षिणकर्णे पुरुषसूक्तार्थमुपदिशेद्विद्वान् ।
- न बहुशो वदेत् ।
- यातयामो भवति ।
- असकृत्कर्णमुपदिशेत् ।
- एतत्कुर्वाणोऽध्येताध्यापकश्च इह जन्मनि पुरुषो भवतीत्युपनिषत् ॥१२॥
- ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठित माविरावीर्म एधि ॥
- वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥
- तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् ॥
- ॐ शान्तिः शान्तिः शान्तिः ॥
॥इति मुद्गलोपनिषत्समाप्ता॥