हयग्रीवोपनिषत्
दिखावट
॥ हयग्रीवोपनिषत् ॥
स्वज्ञोऽपि यत्प्रसादेन ज्ञानं तत्फलमाप्नुयात् । सोऽयं हयास्यो भगवान्हृदि मे भातु सर्वदा ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः । व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ नारदो ब्रह्माणमुपसमेत्योवाचाधीहि भगवन् ब्रह्मविद्यां वरिष्ठां यया चिरात्सर्वपापं व्यपोह्य ब्रह्मविद्यां लब्ध्वैश्वर्यवान्भवति । ब्रह्मोवाच हयग्रीवदैवत्यान्मन्त्रान्यो वेद स श्रुतिस्मृतीतिहासपुराणानि वेद । स सर्वैश्वर्यवान्भवति । त एते मन्त्राः । विश्वोत्तीर्णस्वरूपाय चिन्मयानन्दरूपिणे । तुभ्यं नमो हयग्रीव विद्याराजाय स्वाहा स्वाहा नमः ॥ १ ॥ ऋग्यजुःसामरूपाय वेदाहरणकर्मणे । प्रणवोद्गीथवपुषे महाश्वशिरसे नमः स्वाहा स्वाहा नमः ॥ २ ॥ उद्गीथ प्रणवोद्गीथ सर्ववागीश्वरेश्वर । सर्ववेदमयाचिन्त्य सर्वं बोधय बोधय स्वाहा स्वाहा नमः ॥ ३ ॥ ब्रह्मात्रिरविसवितृभार्गवा ऋषयः । गायत्रीत्रिष्टुबनुष्टुप् छन्दांसि । श्रीमान् हयग्रीवः परमात्मा देवतेति । ल्हौमिति बीजम् । सोऽहमिति शक्तिः । ल्हूमिति कीलकम् । भोगमोक्षयोर्विनियोगः । अकारोकारमकारैरङ्गन्यासः । ध्यानम् । शङ्खचक्रमहामुद्रापुस्तकाढ्यं चतुर्भुजम् । संपूर्णचन्द्रसंकाशं हयग्रीवमुपास्महे ॥ ॐ श्रीमिति द्वे अक्षरे । ल्हौमित्येकाक्षरम् । ॐ नमो भगवत इति सप्ताक्षराणि । हयग्रीवायेति पञ्चाक्षराणि । विष्णव इति त्र्यक्षराणि । मह्यं मेधां प्रज्ञामिति षडक्षराणि, प्रयच्छ स्वाहेति पञ्चाक्षराणि । हयग्रीवस्य तुरीयो भवति ॥ ४ ॥ ॐ श्रीमिति द्वे अक्षरे । ल्हौमित्येकाक्षरम् । ऐमैमैमिति त्रीण्यक्षराणि । क्लीं क्लीमिति द्वे अक्षरे । सौः सौरिति द्वे अक्षरे । ह्रीमित्येकाक्षरम् । ॐ नमो भगवत इति सप्ताक्षराणि । मह्यं मेधां प्रज्ञामिति षडक्षराणि । प्रयच्छ स्वाहेति पञ्चाक्षराणि । पञ्चमो मनुर्भवति ॥ ५ ॥ हयग्रीवैकाक्षरेण ब्रह्मविद्यां प्रवक्ष्यामि । ब्रह्मा महेश्वराय महेश्वरः संकर्षणाय संकर्षणो नारदाय नारदो व्यासाय व्यासो लोकेभ्यः प्रायच्छदिति हकारोंसकारोमकारों त्रयमेकस्वरूपं भवति । ल्हौ बीजाक्षरं भवति । बीजाक्षरेण ल्हौं रूपेण तज्जापकानां संपत्सारस्वतौ भवतः । तत्स्वरूपज्ञानां वैदेही मुक्तिश्च भवति । दिक्पालानां राज्ञां नागानां किन्नराणामधिपतिर्भवति । हयग्रीवैकाक्षरजपशीलाज्ञया सूर्यादयः स्वतः स्वस्वकर्मणि प्रवर्तन्ते । सर्वेषां बीजानां हयग्रीवैकाक्षरबीजमनुत्तमं मन्त्रराजात्मकं भवति । ल्हौं हयग्रीवस्वरूपो भवति । अमृतं कुरुकुरु स्वाहा । तज्जापकानां वाक्सिद्धिः श्रीसिद्धिरष्टाङ्गयोगसिद्धिश्च भवति । अगम्यागमनात्पूतो भवति । पतितसंभाषणात्पूतो भवति । ब्रह्महत्यादिपातकैर्मुक्तो भवति । गृहं गृहपतिरिव देही देहान्ते परमात्मानं प्रविशति । प्रज्ञानमानन्दं ब्रह्म तत्त्वमसि अयमात्मा ब्रह्म अहं ब्रह्मास्मीति महावाक्यैः प्रतिपादितमर्थं त एते मन्त्राः प्रतिपादयन्ति । स्वरव्यञ्जनभेदेन द्विधा एते । अथानुमन्त्राञ्जपति । यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा । चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥ १ ॥ गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥ २ ॥ ओष्ठापिधाना नकुली दन्तैः परिवृता पविः । सर्वस्यै वाच ईशाना चारु मामिह वादयेति च वाग्रसः ॥ ३ ॥ ससर्परीरमतिं बाधमान बृहन्मिमाय जमदग्निदत्त । आसूर्यस्य दुरिता तनान श्रवो देवेष्वमृतमजुर्यम् ॥ ४ ॥ य इमां ब्रह्मविद्यामेकादश्यां पठेद्धयग्रीवप्रभावेन महापुरुषो भवति । स जीवन्मुक्तो भवति । ॐ नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं माच्योढ्वं ममामुष्य ओमित्युपनिषत् ॥ ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ अथ हयग्रीवोपनिषत्समाप्ता ॥