रोमन्थतपोभ्यां कर्मभ्या क्रमेण वर्तनायां चरणे चार्थे क्यङ् स्यात् । रोमन्थं वर्तयति रोमन्थायते । 'हनुचलने इति वक्तव्यम्' (वा १७६२) । चर्वितस्याकृष्य पुनश्चर्वणमित्यर्थः । नेह । कीटो रोमन्थं वर्तयति । अपानप्रदेशान्निस्सृतं द्रव्यमिह रोमन्थः । तदश्नातीत्यर्थ इति कैयटः । वर्तुळं करोतीत्यर्थ इति न्यासकारहरदत्तौ । 'तपसः परस्मैपदं च' (वा १७६६) । तपश्चरति तपस्यति ।
२६७२ । बाष्पोष्मभ्यामुद्वमने । (३-१-१६)
आभ्यां कर्मभ्यां क्यङ् स्यात् । बास्पमुद्वमति बाष्पायते । ऊष्मायते । 'फेनाच्चेति वाच्यम्' (वा १७६४) । फेनायते ।
२६७३ । शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे । ३-१-१७)
एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात् । शब्दं करोति शब्दायते । पक्षे 'तत्करोति-' इति णिजपीष्यत इति न्यासः । शब्दयति । 'सुदिनदुर्दिननीहारेभ्यश्च' (वा १७३६-३७) । सुदिनायते ।
सङ्ख्यमन्वय. । तदाह । रोमन्थतपोभ्यामिति ॥ रोमन्थमिति ॥ उद्गीर्णस्य निगीर्णस्य वा मन्थो रोमन्थ इति भाष्यम् । उद्गीर्णस्य उदरादुपरि कण्ठद्वारा निर्गतस्य निगीर्णस्य अपानद्वारा निर्गतस्य च मन्थः चर्वण रोमन्थ इत्यर्थः । वर्तयतीति ॥ आवर्तयतीत्यर्थः । हनुचलने इति ॥ हनु तालु तच्चलने सत्येव अयं विधिरित्यर्थः । तथाच उदरगतभक्षित द्रव्यन्तृणादिक पुनःपुनराकृष्य तालुचलनेन चूर्णितस्य पुनः पुनः प्राशने रोमन्थशब्दात् क्यङिति फलितम् । तदाह । चर्वितस्येति ॥ हनुचलनेन भक्षितस्य उदर प्रविष्टस्य पुनः पुनराकृष्य हनुचलनेन भक्षणे गम्ये इति फलितमित्यर्थः । कीटः इति ॥ इह हनुचलनाभावान्न क्यङिति भावः । तदेवोपपादयति । अपानेति ॥ 'तपसः परस्मैपदञ्च' इति वार्तिकम् । तपश्शब्दः कर्मकारकवृत्तिः । पूर्वसूत्राच्चरणे क्यङं लभते । डित्त्वप्रयुक्तमात्मनेपदं बाधित्वा परस्मैपदमेव लभते इत्यर्थः । तपस्यतीति ॥ प्रातिपदिकादेवास्य क्यङुत्पत्तेरन्तर्वर्तिविभक्त्यभावात् 'नः क्ये' इति नियमाच्च पदत्वाभावान्न रुत्वमिति भावः । बाष्पोष्मभ्यामुद्वमने ॥ आभ्याङ्कर्मभ्यामिति ॥ 'कर्मणो रोमन्थ' इत्यतः कर्मग्रहणमनुवर्तते इति भाव । कर्मकारकवृत्तिभ्यामित्यर्थः । फेनायते इति ॥ फेनमुद्वमतीत्यर्थः । शब्दवैर ॥ करण क्रिया । तदाह । करोत्यर्थे इति ॥ तत् करोतीति णिचोऽपवादः । पक्षे इति ॥ कदाचिदित्यर्थः । न्यासः इति ॥ भाष्यानारूढत्वमत्र अरुचिबीजम् । 'सुदिन-