एषामभ्यासस्य नुक् स्याद्यङ्यङ्लुकोः । गर्हितं जपति जञ्जप्यते इत्यादि ।
२६३९ । ग्रो यङि । (८-२-२०)
गिरते: रेफस्य लत्वं स्याद्यङि । गर्हितं गिलति जेगिल्यते । 'घुमास्था —' (सू २४६२) । इतीत्त्वम् । गुणः । देदीयते । पेपीयते । सेषीयते । 'विभाषा श्वेः' (सू २४२०) । शोशूयते । शेश्वीयते । 'यङि च' (सू २६३३) । सास्मर्यते । 'रीङृतः' (सू १२३४) । चेक्रीयते । सुट् । सञ्चेस्क्रीयते ।
२६४० । सिचो यङि । (८-३-११२)
सिचः सस्य षो न स्याद्यङि । निसेसिच्यते ।
२६४१ । न कवतेर्यङि । (७-४-६३)
कवतेरभ्यासस्य चुत्वं न स्याद्यङि । कोकूयते । कौतिकुवत्योस्तु चोकूयते ।
एषामिति ॥ इत्यादीति ॥ जञ्जभ्यते । दन्दह्यते । दन्दश्यते । बम्भज्यते । पसधातुर्दन्त्यान्त सौत्रो गत्यर्थ इति माधव । तालव्यान्त इति काशिका । ग्रो यङि ॥ गृ इत्यस्य ग्रः इति षष्ठ्येकवचनम् । 'कृपो रो ल.' इत्यत. रो ल: इत्यनुवर्तते । तदाह । गिरतेरित्यादि ॥ दा पा स्था एभ्यो यडि विशेषमाह । घुमास्थेत्यादि ॥ शोशूयते इति ॥ श्विधातोर्यडि 'सम्प्रसारणन्तदाश्रयञ्च कार्यम्बलवत्' इति वचनात् सम्प्रसारणे पूर्वरूपे शु इत्यस्य द्वित्वम् 'अकृत्सार्वधातुकयोः' इति दीर्घ । सास्मर्यते इति ॥ स्मृ य इति स्थिते सयोगादित्वात् 'यडि च' इति परत्वाद्गुणे रपरत्वे द्वित्वे 'दीर्घोऽकित.' इत्यभ्यासदीर्घः । चेक्रीयते इति ॥ कृ य इति स्थिते परत्वात् ॠकारस्य रीडादेशे क्री इत्यस्य द्वित्वे अभ्यासगुणः । सुडिति ॥ 'सपरिभ्या करोतौ भूषणे' 'समवाये च' इत्यनेनेति शेषः । सिचो यङि ॥ 'सहेः साडः सः' इत्यतस्स इति षष्ठ्यन्तमनुवर्तते । 'मूर्धन्यः' इत्यधिकृत 'न रपरसृपि' इत्यतः नेत्यनुवर्तते । तदाह । सिचः इति । निसेसिच्यते इति ॥ 'उपसर्गात्सुनोति' इति 'स्थादिष्वभ्यासेन' इति च षत्वमनेन निषिध्द्यते । न कवतेर्यङि ॥ 'अत्र लोपः' इत्यत अभ्यासस्येति 'कुहोश्चुः' इत्यत. चुरिति चानुवर्तते इति मत्वा आह । कवतेरभ्यासस्येति ॥ ननु कोर्यडि इत्येव सिद्धे श्तिपा निर्देशो व्यर्थ इत्यत आह । कौतिकुवत्योस्त्विति ॥ शपा निर्देशार्थ कवतिग्रहणम् । तेन 'कु शब्दे' इति लुग्विकरणस्य 'कुड् शब्दे' इति शविकरणस्य च ग्रहणन्न लभ्यते इति भावः । नच कोरित्युक्तेऽपि दीर्घान्तस्य शविकरणस्य न ग्रहणप्रसक्तिरिति शङ्क्यम् । तुदादौ 'कुड् शब्दे' इति ह्रस्वान्तपाठस्य न्यास-