गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५०

विकिस्रोतः तः
← अध्यायः ४९ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५०
गर्गमुनि
अध्यायः ५१ →

अश्वमेधखण्डः - पञ्चाशत्तमोऽध्यायः

यादवगणकृतं हस्तिनापुरविजयम् -


गर्ग उवाच -
तदैव वृष्णयः सर्वे भोजवृष्ण्यंधकादयः ॥
 माथुरा शूरसेनाद्याः समुत्तीर्य यमस्वसाम् ॥१॥
 रजोभिश्च नभो व्याप्तं कुर्वंतश्च महीतलम् ॥
 चालयंतश्च बलिनो महासंग्रामकर्कशाः ॥२॥
 विलोकयंतस्तुरगं सर्वतस्ते महाबलाः ॥
 आजग्मुश्चानिरुद्धाद्याः श्रीकृष्णाद्या नृपेश्वर ॥३॥
 वृष्णयस्तत्र युद्धस्य महाघोषं भयंकरम् ॥
 शरासनानां टंकारं शतघ्नीनां रवं तथा ॥४॥
 शूराणां गर्जनं चैव शस्त्राणां चट्‍चटं तथा ॥
 कोलाहलं च हाकारं श्रुत्वा ते विस्मयं ययुः ॥५॥
 मत्वा ते युद्धमासीद्वै यादवानां च कौरवैः ॥
 शंकिता अनिरुद्धाद्याः कृष्णाद्या आययुर्द्रुतम् ॥६॥
 श्रीकृष्णमागतं दृष्ट्वानिरुद्धाद्यैः समन्वितम् ॥
 ससैन्यं च सहायार्थं नेमुः सांबादयो नृप ॥७॥
 कृष्णे समागते नेदुर्भेर्य्यः शंखाश्च गोमुखाः ॥
 पुष्पवर्षं जयारावं देवाश्चक्रुश्च यादवाः ॥८॥
 दृष्ट्वानिरुद्धं प्रधने समागतं
     ह्यक्षौहिणीभिः शतभिः समन्वितम् ॥
 प्रचालयंतं वसुधां महाबलं
     विदुद्रुवुस्ते तु भयाच्च कौरवाः ॥९॥
 प्रलयाब्धिसमं सैन्यमंधकानां विलोक्य च ॥
 भीताश्च दुद्रुवुर्वैश्या गेहे गेहे कृतार्गलाः ॥१०॥
 ब्राह्मणाः क्षत्रिया वैश्या वृषलाः स्त्रीजनास्तथा ॥
 दुर्योधनं शपंतश्च रुरुदुर्निर्गता गृहात् ॥११॥
 ततो विहाय मूर्च्छां वै मृधे दुःशासनाग्रजः ॥
 सद्यः सुप्त इवोत्तस्थौ यदुसैन्यं ददर्श ह ॥१२॥
 दृष्ट्वा भयंकरां सेनां यादवानां सुयोधनः ॥
 स्वपुरं शंकितो भूत्वा पद्‌भ्यां भीतस्त्वरं ययौ ॥१३॥
 कर्णभीष्मकृपद्रोणभूरिदुर्योधनादयः ॥
 सभायां धृतराष्ट्रं वै नत्वा सर्वमवर्णयन् ॥१४॥
 स्वानां पराजयं श्रुत्वा यादवानां जयं तथा ॥
 कृष्णस्यागमनं चैव नृपो विदुरमब्रवीत् ॥१५॥
 धृतराष्ट्र उवाच -
अक्षौहिणीशतयुते वासुदेवे समागते ॥
 कुपितेऽद्य वयं वीर करिष्यामश्च किं वद ॥१६॥
 नृपस्य वचनं श्रुत्वा प्रहस्य विदुरोऽब्रवीत् ॥
 विदुर उवाच -
पुरा रामेण चैकेन कुपितेन गजाह्वयम् ॥१७॥
 विकर्षितं च गंगायां तस्य भ्राता हि चागतः ॥
 हृत्कंजकोशाद्देवक्यां जातो यः स हरिर्नृप ॥१८॥
 येन वै संयुगे राजन्कंसाद्याः शकुनादयः ॥
 मारिता बहवो दैत्या निर्जिताश्च नृपाः सुराः ॥१९॥
 तस्माद्युद्धस्य समयो नास्ति राजन्विलोकय ॥
 कौरवे श्यामकर्णं तु कृष्णाय दातुमर्हसि ॥२०॥
 माभूत्कुरूणां वृष्णीनां कलहो नाशकारकः ॥
 एवं राजा बोधितस्तु विदुरेणानुजेन वै ॥२१॥
 उवाच कौरवान्प्राज्ञो देशकालोचितं वचः ॥
 धृतराष्ट्र उवाच -
गत्वा कृष्णस्य निकटे तुरगं दातुमर्हथ ॥२२॥
 संमुखे देवदेवस्य युद्धं कर्तुं च नार्हथ ॥
 यादवानां सहायार्थमागतं कुपितं हरिम् ॥२३॥
 यूयं प्रसन्नं कुरुत गत्वा तन्निकटं शनैः ॥
 कौरवेंद्रस्य वचनं कौरवास्ते निशम्य च ॥२४॥
 विविधानुपचारांश्च गंधाक्षतयुतान्किल ॥
 गृहीत्वा दिव्यवस्त्राणि रत्‍नानि विविधानि च ॥२५॥
 वदंतः पुण्यनामानि रामकेशवयोर्मुदा ॥
 पद्‌भिर्विनिर्ययुः सर्वे कृष्णं द्रष्टुं भयान्विताः ॥२६॥
 आगतान्कौरवान्दृष्ट्वा यादवाः क्रोधपूरिताः ॥
 नानाशस्त्राणि जगृहुस्तत्र युद्धाय वेगतः ॥२७॥
 ऊचुस्तान्कौरवाः सर्वे वयं युद्धाय नागताः ॥
 करिष्यामश्च कृष्णस्य दर्शनं दुःखनाशनम् ॥२८॥
 इति तेषां वचः श्रुत्वा यादवा विस्मयं गताः ॥
 कृष्णाय कथयामासुः कौरवाणां विचेष्टितम् ॥२९॥
 ततः कृष्णस्य वचसा कौरवान्यदुसत्तमाः ॥
 आह्वयामासुस्ते प्रीता निःशस्त्रानागतान्नृप ॥३०॥
 आहूतास्ते तु हरिणा गत्वा श्रीकृष्णसन्निधौ ॥
 लज्जयावाङ्‌मुखाः सर्वे प्रणम्योचुः पृथक्पृथक् ॥३१॥
 पूर्वं द्रोण उवाचाथ कृष्णभद्र जगत्पते ॥
 रक्ष मां कौरवान् रक्ष मायया तव मोहितान् ॥३२॥
 कृपाचार्य उवाच -
मज्जन्मनः फलमिदं मधुकैटभारे
     मत्प्रार्थनीयमदनुग्रह एष एव ॥
 त्वद्‌भृत्यभृत्यपरिचारकभृत्यभृत्य
     भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥३३॥
 कर्ण उवाच -
भक्तस्यार्थे धनं क्षीणं स्वदारगतयौवनम् ॥
 स्वामिकार्ये गताः प्राणा अंते तिष्ठंतु माधव ॥३४॥
 भूरिरुवाच -
याचामहे वरद किंचिदनन्यलभ्यं
     नाथ प्रसीद सुमुखी यदि दिव्यदृष्टिः ॥
 अस्माभिरंजलिरयं विवशैर्निबद्ध
     एषैव मे भवतु देव भवांतरेऽपि ॥३५॥
 दुर्योधन उवाच -
जानामि धर्मं न च मे प्रवृत्ति-
     र्जानामि पापं न च मे निवृत्तिः ॥
 केनापि देवेन हृदि स्थितेन
     यथा नियुक्तोऽस्मि तथा करोमि ॥३६॥
 यंत्रस्य गुणदोषेण क्षम्यतां मधुसूदन ॥
 अहं यन्त्रो भवान्यंत्री मम दोषो न दीयताम् ॥३७॥
 भीष्म उवाच -
रागांधगोपीजनचुंबिताभ्यां
     योगीन्द्रभोगींद्रनिवेशिताभ्याम् ॥
 आताम्रपंकेरुहकोमलाभ्यां
     चाभ्यां पदाभ्यामयञ्जलिर्मे ॥३८॥
 विदुर उवाच -
आस्तेति विक्रयकृतां सुकृतानि तानि
     ये ब्रह्मबालमिव तत्परिपालयंति ॥
 यद्दैत्यदेवमुनिभिर्मनसाप्यगम्यं
     यन्नेति नेति च वदन्न हि वेद वेदः ॥३९॥
 श्रीगर्ग उवाच -
एवं संप्रार्थितः कृष्णः कौरवैः शरणागतैः ॥
 प्रीतः प्रत्याह तान् राजन्मेघनिर्हादया गिरा ॥४०॥
 श्रीकृष्ण उवाच -
आर्या शृणुत मद्वाक्यमहमागतवान् यतः ॥
 युद्धं वारयितुं चात्र नारदेन प्रणोदितः ॥४१॥
 न मन्यन्ते ममाज्ञां वै मत्पुत्राश्च निरंकुशाः ॥
 दीर्घाणां च प्रकुर्वंति ह्यपराधं च दूषणम् ॥४२॥
 यूयं धन्याश्च मान्याश्च मिलनार्थं समागताः ॥
 मत्पुत्रैश्च कृतं यद्वै तत्सर्वं क्षन्तुमर्हथ ॥४३॥
 उग्रसेनहयं वीराः कृपया च विमुच्यताम् ॥
 पालनार्थं तु तस्यापि यूयं गच्छत गच्छत ॥४४॥
 यादवाः कौरवा मित्राः कलहं तु परस्परम् ॥
 प्रकर्तुं नैव चार्हन्ति पूर्वप्रेम विलोक्य च ॥४५॥
 एवं ते कृष्णदेवेन मिष्टवाक्यैश्च तोषिताः ॥
 तुरगं च ददुः प्रीताः पारिबर्हेण संयुतम् ॥४६॥
 दत्वा तुरंगमं सर्वे कौरवाः खिन्नमानसाः ॥
 स्वपुरं विविशू राजन्भीष्मो गन्तुं मनो दधे ॥४७॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
हस्तिनापुरविजयो नाम पंचाशत्तमोऽध्यायः ॥५०॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता