गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४९

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ४८ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ४९
गर्गमुनि
अध्यायः ५० →


अश्वमेधखण्डः - एकोनपंचाशत्तमोऽध्यायः

यादव-कौरव युद्धम् -


दुर्योधनः स्ववीराणां भीष्मद्रोणकृपादिभिः ॥
 दृष्ट्वा मुखानि भग्नानि कोपं कृत्वेदमब्रवीत् ॥१॥
 अहो वै यादवास्तुच्छा आगता मृत्युसंमुखे ॥
 किं न जानंति ते मूढा धृतराष्ट्रबलं महत् ॥२॥
 इत्युक्त्वा प्रेषयामासुः स्वां सेनां चतुरंगिणीम् ॥
 गजाश्वरथवीरैश्च युक्तां युद्धे च यादवान् ॥३॥
 सा चचाल महासेना कंपयंती महीतलम् ॥
 अक्षौहिणीभिर्दशभिस्त्रासयंती बलाद्‌रिपून् ॥४॥
 आयांतीं तां ततो दृष्ट्वा सांबो जांबवतीसुतः ॥
 स्वां सेनां नोदयामास हर्षाद्वीरैर्विभूषितः ॥५॥
 ततश्च कौरवाः सर्वे रक्षणार्थं तु स्वात्मनः ॥
 क्रौंचव्यूहं विनिर्माय तत्र सर्वे हि संस्थिताः ॥६॥
 आसीत्तस्य मुखे भीष्मो ग्रीवायां द्रोण एव च ॥
 पक्षयोः कर्णशकुनी तस्य पुच्छे सुयोधनः ॥७॥
 मध्ये तस्य महासेना चतुरंगबलैर्युता ॥
 कृतं हि ददृशुर्व्यूहं क्रौञ्चं वै शत्रुदुर्जयम् ॥८॥
 क्रौंचव्यूहं तत्र दृष्ट्वा यदवो युद्धशंकिताः ॥
 ऊचुर्हे सांब त्वमपि कुरु व्यूहं प्रयत्‍नतः ॥९॥
 इति तेषां वचः श्रुत्वा सांबः संग्रामकोविदः ॥
 न चकार रणे व्यूहं कौरवानगणय्य च ॥ १०॥
 युद्धं कर्तुं प्रचलिते ते द्वे सेने यदा नृप ॥
 तदा मुहूर्तपर्यंतं चकंपे वसुधा भृशम् ॥११॥
 जघ्नुर्भेर्य्यश्च शंखाश्च ह्युभयोः सेनयोस्तदा ॥
 टंकाराश्चैव चापानां श्रूयंते तत्र तत्र ह ॥१२॥
 गर्जन्ति दन्तिनस्तत्र हया हेषंति तत्र ह ॥
 शब्दं शूराः प्रकुर्वंति नंदंति रथनेमयः ॥१३॥
 सैन्यपादरजोभिश्च ह्यंधकारोऽभवद्‌रणे ॥
 मलिनं गगनं भूत्वा सूर्यस्तत्र न दृश्यते ॥१४॥
 उभयोः सेनयोर्युद्धं ततः समभवद्‌भृशम् ॥
 बाणैर्गदाभिः परिघैः शतघ्नीभिश्च शक्तिभिः ॥१५॥
 परस्परं ते युयुधुराहवे निशितैः शरैः ॥
 गजा गजै रथा रथैर्हया हयैर्नरा नरैः ॥१६॥
 शरांधकारे संजाते सांबो बाणैर्धनुर्द्धरः ॥
 रणे भीष्मेण युयुधेऽक्रूरः कर्णेन तत्र च ॥ १७॥
 युयुधानः शकुनिना द्रोणाचार्येण सारणः ॥
 दुर्योधनेन संग्रामे सात्यकिः शीघ्रमेव च ॥१८॥
 बली दुःशासनेनापि कृतवर्मा तु भूरिणा ॥
 एवं परस्परं ह्यासीत्संग्रामो भयकारकः ॥१९॥
 ततः सांबस्तु संक्रुद्धः सज्जं कृत्वा धनुर्दृढम् ॥
 टंकारयामास तदा शूराणां कम्पयन्हृदि ॥२०॥
 श्रीकृष्णं प्रथमं नत्वा मुमुचे सायकान्दश ॥
 तानागताञ्छरान्भीष्मश्चिच्छेद स्वशरैरपि ॥२१॥
 रणे सांबः पुनस्तस्य कवचे सायकान्दश ॥
 निचखान स्वर्णमयान्नादं कृत्वा तु सिंहवत् ॥२२॥
 चतुर्भिः सायकैस्तस्य निजघ्ने चतुरो हयान् ॥
 चिच्छेद बाणैर्दशभिस्तत्कोदंडं गुणान्वितम् ॥२३॥
 स छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥
 उत्थाय भीष्मः सहसा गदां जग्राह रोषतः ॥ २४॥
 सांबः प्राह त्वया सार्द्धं कथं युद्धं करोम्यहम् ॥
 पदातिना रथं चान्यं तुभ्यं दास्यामि संयुगे ॥२५॥
 सशस्त्रं स्यंदनं युद्धे त्वं गृहाण कुरूद्वह ॥
 जय मां निस्त्रपं मूढं वृद्धस्त्वं पुज्य एव च ॥२६॥
 स उवाच ततः साम्बं क्रोधात्प्रस्फुरिताधरः ॥
 दंतान्दतैर्लिहन्नोष्ठं जिह्वया रक्तलोचनः ॥२७॥।
 त्वद्दत्ते स्यंदने स्थित्वा यदा युद्धं करोम्यहम् ॥
 तदा भवति मेऽकिर्तिः पापं निरयमेव च ॥२८॥
 प्रतिग्रहपरा विप्रा दातारश्च वयं स्मृताः ॥
 दत्तं राज्यं यदुभ्यश्च पुरास्माभिः कृपालुभिः ॥२९॥
 श्रुत्वा तद्वचनं सांबः प्रत्युवाच रुषान्वितः ॥
 भयाद्राज्यं प्रदास्यंति राजानो मंडलेश्वराः ॥३०॥
 निरीक्ष्य भूमौ शास्तारं संस्थितं चक्रवर्तिनम् ॥
 इत्येवं वाक्यमाकर्ण्य भीष्मः शूरशिरोमणिः ॥ ३१॥
 जघान गदया गुर्व्या सांबवक्षस्थले नृप ॥
 गदाप्रहारव्यथितः सांबः संमूर्च्छितोऽभवत् ॥३२॥
 सारथिस्तं रथे कृत्वापोवाह शंकितो रणात् ॥
 कोलाहलस्तदैवासीद्यदुसैन्ये नृपेश्वर ॥ ३३॥
 भीष्मोऽन्यं रथमारुह्य दंशितः सशरासनः ॥
 ययौ सुयोधनं शीघ्रं यादवान्मारयन्पथि ॥३४॥
 संग्रामे तत्र राजेन्द्र सात्यकिश्च सुयोधनम् ॥
 चक्रे बाणैश्च विरथं गृधपक्षैः स्फुरत्प्रभैः ॥३५॥
 विरथोऽपि रथं चान्यं स समारुह्य वेगतः ॥
 तं शत्रुं विरथं चक्रे शरैराशीविषोपमैः ॥३६॥
 स चान्यं रथमारुह्य सात्यकिः शीघ्रविक्रमः ॥
 बाणेनैकेन तद्यानं चिक्षेप नृप योजनम् ॥३७॥
 रथः पपात भूमध्ये ससूतः सतुरंगमः ॥
 अंगारवद्विशीर्णोऽभून्मूर्च्छितोऽभूत्सुयोधनः ॥३८॥
 तदा द्रोणस्तु संक्रुद्धो बाणेनाग्निमयेन च ॥
 जघान सात्यकिं युद्धे स्वशत्रुं तु विहाय वै ॥३९॥
 रथस्तु तस्य दग्धोऽभूत्सतुरंगः ससारथिः ॥
 अभवन्मूर्च्छितः सोऽपि दग्धांगो बाणज्वालया ॥४०॥
 कृतवर्मा ततः क्रुद्धो भूरिं जित्वा रणांगणे ॥
 आजगाम नदन् राजन्द्रोणोपरि रुषान्वितः ॥४१॥
 स गत्वा प्रधने रोषाद्‌द्रोणाचार्यं शरैरपि ॥
 चक्रे पदातिनं वीरो निःशस्त्रं छिन्नकंचुकम् ॥४२॥
 ततः कर्णस्तु संक्रुद्धस्त्यक्त्वाक्रूरं रणांगणे ॥
 तताड कृतवर्माणं शक्त्या शक्तीव तारकम् ॥४३॥
 सा शक्तिस्तत्तनुं भित्वा विवेश धरणीतले ॥
 निर्भिन्नहृदयो भूत्वा कृतवर्मा पपात ह ॥४४॥
 युयुधानस्ततः कोपान्निर्जित्य शकुनिं मृधे ॥
 कर्णस्योपरि राजेन्द्र ह्याजगाम रथेन च ॥४५॥
 गत्वा शरासनेनापि मुमुचे सायकान्दश ॥
 वीक्ष्य तानागतान्कर्णो निजघान स्वसायकैः ॥४६॥
 संघृष्टास्तत्र संग्रामे तयोर्बाणाः परस्परम् ॥
 विस्फुलिंगान्क्षरंतस्ते भ्रमन्तेऽलातचक्रवत् ॥४७॥
 युयुधानस्ततः कोपात्कर्णस्य जगतीपते ॥
 जघान कवचे बाणान्काकपक्षयुताञ्छितान् ॥४८॥
 ते शराः कर्णकवचे न लग्नाः पतिता भुवि ॥
 राजन्पापस्य कर्तारो न स्वर्गे निरये यथा ॥४९॥
 ततः प्रहस्य कर्णस्तु युयुधानं च विस्मितम् ॥
 चकार विरथं युद्धे शरैर्नानास्त्रयोजितैः ॥५०॥
 दुःशासनं बलिं चैव कृत्वा युद्धे विमूर्च्छितम् ॥
 आययौ संयुगे कर्णं रथेनानलवर्चसा ॥५१॥
 आगतं बलिनं दृष्ट्वा कर्णो भास्करनंदनः ॥
 पवनास्त्रेण बाणेन तं चिक्षेप सवाहनम् ॥५२॥
 पपात योजने सोऽपि सांबस्तत्रागमत्पुनः ॥
 अंधकारं शरैः कुर्वन्कौरवान्मारयन् रुषा ॥५३॥


इति श्रीगर्गसंहितायां हयमेधखण्डे
यदुकुरुसंग्रामवर्णनं नामैकोनपंचाशत्तमोऽध्यायः ॥४९॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता