४६९ । अम्बरीषः । अयं निपात्यते । “ अबि शव्दे' । “ अम्बरीष
पुमान्भ्राष्ट्रम्' । अमरस्तु * झीबेऽम्बरीषं भ्राष्ट्रो ना' ।
४७० ॥ कृशूपृकटिपटिशौटिभ्य ईरन् । करीरो वंशाङ्करः । शरीरम् । परीरं फलम् । कटीरः कन्दरो जघनप्रदेशश्च । पटीरश्चन्दनः कण्टकः कामश्च । ब्राह्मणादित्वात् ष्यञ् । शैौटीर्यम्
४७१ । वशेः केित् । उशीरम् ।
४७२ । कशेर्मुट् च । कश्मीरो देश: ।
४७३ । कृञ्ज उच । कुरीरं मैथुनम् ।
४७४ । घसेः किञ्च । क्षीरम् ।
४७५ । गर्भीरगम्भीरौ । गमेर्भः । पक्षे नुम् च ।
४७६ । विषा विहा । स्यतेर्जहातेश्च विपूर्वाभ्यामाप्रत्ययः । विषा बुद्धि , विहा स्वर्गः, अव्यये इमे ।
४७७ । पच एलिमच । 'पचेलिमो वह्निरव्यो
४७८ । शीडो धुञ्जकलञ्वालनः । चत्वार. प्रत्ययाः स्युः । शाधु मद्यम् ।
मेदिनी । “वलीकनीत्रे पटलप्रान्ते ? इत्यमर । वलतेमुगागमे वल्मीकम् । “वामलूरश्च नाकुश्च वल्माक पुनपुस्मकम्' इत्यमर वद्दतेद्धिश्च । वाहीको गौः, वाहश्च । सुप्रपूर्वादिणस्तुट् च सुप्रतीकः । शाम्यतः शमीक ऋजीषम् । एतच ऋजीषिण वृषण ससतश्रिये । आसत्या यातु मघवान् ऋजीषीत्यादिमन्त्रभाष्ये स्पष्टम् । अयमिति ॥ ईषन् प्रत्ययः, अरुट च तस्यागम इत्यर्थः । बापालितोक्तिमाह । अम्बरीष इत्यादि । “ अम्बरीष रणे भ्राष्ट्र छीब पुंसि नृपान्तरे । नरकस्य प्रभेदे च किशेरे भास्करेऽपि च । आम्रातके तु तापे च' इति मेदिनी । कृशू ॥ 'वंशाङ्करे करीरोऽत्री वृक्षभिद्वटयोः पुमान् । करीरा चीरिकायाश्च दन्तमूले च दन्तिनाम्' इति मेदिनी । 'शरीर वष्र्म विग्रह' इत्यमरः । अर्धचदित्वात् शरीरोऽपि । बाहुलकात् । 'हिडि गल्यनादरयोः ।' हिण्डते इतस्ततो गच्छतीति हिण्डीरः । 'हिण्डीरो ऽब्धिकफः फेन.' इत्यमर । 'डिण्डीरोऽपि च हिण्डीर.’ इति द्विरूपकोश . । किमरञ्जम्बीर तूणीरादयोऽप्येव बोद्याः । * किमरे नागरङ्गे च कर्बुरे राक्षसान्तरे' इति मेदिनी । 'जम्बीरः प्रस्थपुष्पे रूयात्तथा दन्तशठे दुमे' इति च । उशीर वीरणमूलम् । उशीरोऽपि । “मूले ऽस्येोशीरमत्रियाम् । अभय नलद सव्यम्' इत्यमरः । कुरीरमिति ॥ कपिलकादित्वाछत्वे कुलीरः कर्कटकः । घसे ॥ क्षीरामति ॥ उपधालोपः । कत्व षत्वम् । 'क्षीर दुधे च नीरे च' इति विश्वः । गमेरिति ॥ 'निन्नङ्गभीरङ्गम्भीरम्' इत्यमर । पच एलिमञ् । कर्तर्यय कृत्यप्रत्ययेषु रिदुपसङ्खयातः । शरतेऽनेन शीधुः । मद्यविशेषः । 'मैरेयमासवः शीधु