सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०८
[उणादिषु
सिध्दान्तकौमुदीसहिता


जामाता । *मान पूजायाम् ' नलापः माता । पातराकारस्यत्वम् । पिता । दुहेस्तृच्, इट् गुणाभावश्च । दुहिता ।

२५३ । सुञ्यसंक्रडेन् । स्वसा ।

२५४ । यतेद्धिश्च । याता। ‘भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्'।

२५५ । नबित्र च नन्देः । न नन्दति नान्दा । इह वृद्धिनौनुवर्तते इत्येके । “ ननान्दा तु स्वसा पत्युर्ननन्दा नन्दिनी च सा' इति शब्दार्णवः ।

२५६ । दिवेत्रः । देवा । देवर । “ खामिनो देवृदेवरौ ' ।

२५७ । नयतेर्डिच । ना । नरौ । नरः ।

२५८ । सव्ये स्थश्छन्दसि । 'अम्बाम्ब- (सू २९१८) इत्यत्र 'स्थास्थिन्स्थूणामुपसंख्यानम्' (वा ४९६१) सव्येष्ठा सारथिः । सव्येष्ठरौ । सव्यष्ठर

२५९ । अर्तिसृधृधम्यम्यश्यवितृभ्योऽनिः । अष्टभ्योऽनिप्रत्ययः स्यात् । अरणिरमेयोंनि । सरणि । धरणिः । धमनिः । अमनिर्गतिः । अशनिः । अवनिः । तरणिः । बाहुलकाद्रजनिः ।

२६० । आङि शुषेः सनश्छन्दसि । आशुशुक्षणिरन्निर्वतश्च ।

२६१ । कृषेरादेश्च चः । चर्षणिर्जनः ।


देवशिल्पितक्ष्णोरादित्यभिद्यपि' इति मेदिनी । जाया मातीत्यन्तर्भावितण्यर्थः । सुञ्जयसेः ॥ असु क्षेपणे । अस दीप्तयादिषु । आभ्या सुजि उपपदे ऋछन्। यतेः ॥ यती प्रयते । नजि च नन्देः ॥ 'उषाप्यूषा ननन्दा च ननान्दा च प्रकीर्तिता' इति द्विरूपेषु विश्वः । देवेति ॥ भ्रातर इत्यनुवृत्तौ खामिनो देवृदेवरौ' इत्यमरः । “देवे धवे देवरि माधवे च' इति श्रीहर्षः । नयतेः ॥ ' स्युः पुमासः पञ्चजनाः पुरुषाः पूरुषा नरः' इत्यमर । सव्ये ॥ ऋर्डिचेल्यनुवर्तते । सव्ये ष्ठति ॥ 'तत्पुरुषे कृति' इति सप्तम्या अलुक् । आर्तिस् ॥ धमिः सौत्रः । “अराणिर्वह्निमन्थे ना द्वयोर्निर्मन्थदारुणि' इति मेदिनी । “सराणिः श्रेणिवत्र्मनोः' इति दन्यादौ रभस । 'सरणिः पौ मार्गे च' इति मेदिनी । शू हिंसायाम् । ततः शरणिरियेके । 'शरणिः पथि चाऽऽवलौ' इति तालव्यादावजयः । 'इमामझे शरणिम्’ इति मन्त्रे शरणि हिसा व्रत लोपरूपा मीमृषः क्षमखेति वेदभाष्यम् । “धमनी तु शिरा हट्टविलासिन्याश्च योषिति । अशनिः स्त्रीपुसयोः स्याच्चञ्चलायां पवावपि । तरणिर्युमणौ पुंसि कुमारीनौकयोः स्त्रियाम् । रजनी नीलिनीरात्रिहरिद्राजतुकासु च' इति मेदिनी । कुमारी लताविशेषः । “तरणी रामतरणी कर्णिका कारुकेसरा । सहा कुमारी गन्धाढ्या' इति धन्वन्तरिनिघण्टुः । रजेर्नलोपोऽपि बाहु लकात् । कृषेरादेश्च चः ॥ चर्षणिर्जन इति ॥ वैदिकनिघण्टौ चर्षणिशब्दस्य मनुष्यनामसु