पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
द्वितीय: पाद:]
६०९
बालमनोरमा ।


२६२ । अदेर्मुट् च । अद्मनिः अन्निः ।

२६३ । तेश्च । वर्तनिः । गोवर्धनस्तु चकारान्मुट् वत्र्मनिरित्याह ।

२६४ । क्षिपेः किच । क्षिपणिरायुधम् ।

२६५ । अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः । अचिज्वला । इदन्तो ऽप्ययम् । “ अग्रेभ्रजन्ते अर्चयः’ । शोचिदप्ति: । हविः सर्पि । 'इस्मन्-' (सू २९८५) इति हृस्व । छदिः पटलम् । छर्दिर्वमनव्याधिः । इदन्तोऽपि । छतीसारशूलवान्

२६६ । बृहेनलोपश्च । “बर्हिन कुशशुष्मणो ' ।

२६७ । द्युतेरिसिन्नादेश्च जः । ज्योति ।

२६८ । वसौ रुचेः संज्ञायाम् । वसुरोचिर्यज्ञः ।

२६९ । भुवः केित् । भुविः समुद्रः ।

२७० । सहो धश्च । सधिरनङ्कान् ।

२७१ । पिबतेस्थुक् । 'पाथिश्चक्षुःसमुद्रयोः' ।

२७२ । जनेरुसिः । जनुर्जननम् ।

२७३ । मनेर्धश्छन्दसि । मधुः ।

२७४ । अर्तिपृवपियजितनिधनितपिभ्यो नित् । अरुः । परुर्मेन्थि ।


पाठात् । ‘ओमासश्चर्षणीधृतः। प्रचार्पिणिभ्यः’ इत्यादिमन्त्राणा भाष्ये तथैव व्याख्यानाच। उज्ज्वल दत्ततु आदेश्च ध इति पठित्वा धर्षणी वन्धकीति व्याख्यत् । तदयुक्तम्, तथा सति धृषेरित्येव सूत्रयेत्, प्रागल्भ्यरूपावयवार्थानुगमात् । आदेश्च ध इत्यशस्य त्यागेन लाघवाच। वर्तनिरिति ॥ कृदिकारादिति पक्षे डीष् । “सरणिः पद्धतिः पद्या वर्तन्येकपदीति च' इत्यमरः । क्षिपणिः रायुधमिति ॥ 'उतस्य वाजी क्षिपणिन्तुरण्यति' इति मन्त्रस्य वेदभाष्ये तु क्षिपणिं क्षेपणमनु तुरण्यति त्वरयति गन्तुमिति व्याख्यातम् । अर्चिरिति सान्तम् । “तमर्चिषा स्फूर्जयन्’ इति मन्त्रः । 'नयनमिव सनिद्रं घूर्णते नैशमर्चिः' इति माघ । 'ज्वालाभासोर्न पुस्यचिं.’ इति नानार्थे सान्तेष्वमरः । इदन्तोऽपीति ॥ णिजन्तादच इरिति भाव । * अर्विहेतिः शिख त्रियाम्' इत्यमर । ‘रोचिः शोचिरुभे कृीबे' इति च । छाद्यतेऽनया छदि । छदि. स्त्रियामवेति लिङ्गानुशासनसूत्रम् । एवञ्च ‘पटल छदि.' इत्यमरग्रन्थे पटलसाहचर्याच्छदिषः कृीवतां वदन्त उपेक्ष्याः । हेः ॥ 'बर्हिः पुसि हुताशन । न स्त्री कुशे' इति मेदिनी । द्यते ॥ ज्योतिरस्रौ दिनकरे । पुमान्नपुसके दृष्टौ स्यान्नक्षत्रप्रकाशयोः' इति मेदिनी । वसौ रुचेः ॥ बाहुलकात्केवलादपि । 'रोचिः शोचिरुभे कीबे' । अर्तिपृ ॥ 'त्रणोऽत्रियामीर्ममरुः कृीबे'