'पांसुर्ना न द्वयो रज ' । “तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः' ।
बाधत इति बाहुः । “बाहुः स्त्रीपुंसयोर्भुजः' ।
२८ । प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च । तयाणा कुः सम्प्र सारणं भ्रस्जेः सलोपश्च । पृथुः । मृदुः । न्यङ्कादित्वात्कुत्वम् । भृञ्जति तपसा भृगुः ।
२९ । लङ्गिबंह्योर्नलोपश्च । लघुः । “बालमूललध्वलमङ्गुलीनां वा लो रत्वमापद्यते' (वा ४७९८) । रघुपभेदः । बहुः ।
३० । ऊर्णेतेर्नुलोपश्च । ऊरु सक्थि । ३१ । महति हृस्वश्च । उरु महत् । ३२ । श्लिषेः कश्च । श्लिष्यतीति श्लिकुभृत्यः । उद्यतो ज्योतिश्च ।
३३ । आङ्परयोः खनिशूभ्यां डिच । आ खनतीत्याखुः। परं श्रृणातीति परशुः । पृषोदरादित्वाद्कारलोपात्पर्युरपि ।
३४ । हरिमितयावः । 'दु गतौ' अस्मात् हरिमितयोरुपपदयोः कुः स च डित् । हरिभिर्दूयते हरिदुर्वेक्षः । मितं द्रवति मितदुः समुद्रः ।
३५ । शते च । शतधा द्रवति शतदुः । बाहुलकात्केवलादपि । द्रव त्यूध्र्वमिति दुर्वेक्षः शाखा च । तद्वान्दुमः ।
इति त्रिकाण्डशेषः । पांसुरिति ॥ “पडि पसि नाशने ।' चुरादिदैन्यान्तः । स्त्रीपुंसयो रिति ॥ उक्त ह्यमरेण । ‘द्वौ परौ द्वयोर्भुजबाहू’ इति । परौ द्वौ भुजबाहुशब्दौ द्वयोः स्त्रीपुसयोरिति तदर्थः । अकारान्तोऽग्ययम् । अत एव “बाह्वोश्च भुजयोः पुमान्’ इति दामोदरः । “बाहा भुजेऽपुमान्मानभेदाश्ववृषवायुषु' इति मेदिन्याम् । टावन्तोऽप्ययम् । प्रथिम्रदि । प्रथते इति पृथु । 'पृथु. स्यान्महति त्रिषु । त्वक्पत्र्याङ्कष्णजीरेऽथ पुमानम्रौ नृपान्तरे' इति मेदिनी । म्रदितुं शक्यते अकठिनत्वादिति मृदु. कोमलः । “भृगु पुमान् मुने हरे तटे शुक्रे' इति मेदिनी । ‘भृगुः शुके प्रपाते च जमदग्रौ पिनाकिनि' इति कोशान्तरम् । लघुरिति ॥ 'पृकाया स्त्री लघुः कृीब शीघ्र कृष्णागुरुण्यपि' इति त्रिकाण्डशेषः । ‘लघुरगुरौ च मनोज्ञे नि:सार वाच्यवत् कृीबम् । शीघ्र कृष्णागुरुणि च पृकानामौषधौ तु स्त्री' इति मेदिनी । नृपभेद इति ॥ एतेन ‘अवेक्ष्य धातोर्गमनार्थमर्थविचकारान्नारघुमात्मसम्भवम्’ इति व्याख्यातम्। बहुरिति । बहुस्तु त्यूदिसङ्खयासु विपुले त्वभिधेयवत्' इति मेदिनी । ऊरुर्जङ्केति उज्ज्वलदत्तः । तन्न । तयोर्भदात् । ऊर्णयते आच्छाद्यते इत्यूरुः । कर्मणि प्रत्ययः । उरु महदिति ॥ कर्तरि प्रत्यय. । उद्यत इति । स हि यावत्कार्यं श्लिष्यति लगति व्याप्रियते इति यावत् । पर्शरपीति ॥ पर्शः परशुना सह' इति विश्वः । हरिदुर्वेक्ष इति ॥ दारुहरिद्रा इत्येके । तद्धानिति ॥