पाटेः पटिः । पाटयतीति पटुः । नम्यतेऽनेन नाकुर्वल्मीकम् । मन्यत इति मधु । जायत इति जतु ।
१९ । चलेगुंक्च । “वल संवरणे' । वल्गुः । २० । शाः कित्सन्वञ्च । इयतेरुः स्यात्स च कित्सन्वञ्च । शिशुबलः । २१ । यो द्वे च । ययुरश्धोऽश्वमेधीय: । सन्वदिति प्रकृते द्वेग्रहणमित्व निवृत्त्यर्थम्
२२ । कुत्रैश्च । बधु । “बधुर्मुन्यन्तरे विष्णौ बधू नकुलपिङ्गलैौ ।’ चाद्न्यतोऽपि । चक्रुः कर्ता । जघ्नुर्हन्ता । पपुः पालकः ।
२३ । पृभिदिव्याधिगृधिधृषिभ्यः । कुः स्यात् । पुरुः । भिनत्ति भिदुर्वे जाम् । “ग्रहिज्या-' (सू २४१२) इति सम्प्रसारणम् । विरहिणं विध्यति विधुः । 'विधुः शशाङ्के कर्परे हृषीकेशे च राक्षसे' । गृधुः कामः । धृषुर्दक्षः ।
२४ । कृग्रेोरुच । करोतीति कुरुः । गृणातीति गुरुः ।
२५ । अपदुःसुषु स्थः । “सुषामादिषु च' (सू १०२२) इति षत्वम् । अपटु । प्रतिकूलम् । दुष्ठु । सुषु ।
२६ । रपेरेिचोपधायाः । अनिष्टं रपतीति रिपुः ।
२७ । अर्जिदृशिकम्यमिपशिबाधामृजिपशितुग्धुग्दीर्घहकारश्च । अर्जयति गुणानृजुः । सर्वानविशेषेण पश्यतीति पशुः । कन्तुः कन्दर्पः । अन्धुः कूपः ।
विवेकः । अनागमकाना सागमका आदेशा इति पक्षे तु स्थानषष्ठयेवेति बोद्यम् । “फल्ग्वसारे ऽभिधेयवत् । नदीभेदे मलय्वा त्री' इति मेदिनी । वल संवरणे इति ॥ दन्योष्ठयादिः । यक्तूज्वलदत्तेन सूत्रे पवर्गीयादि पठित्वा, “बल प्राणने' इत्युपन्यस्तम् । तलक्ष्यविरोधादुपेक्ष्यम् । अय नाभा वदति वल्गवो गृहे' इत्यादौ दन्त्योष्ठयपाठस्य निर्विवादत्वात् । धरणिकोशस्थमाह । बश्रुरिति ॥ 'बध्रुवैश्वानरे मूलपाणौ चव गरुडध्वजे । बिशाले नकुले पुंसि पिङ्गले त्वभिधेयवत् ॥ ' इति मेदिनीकोशः। अन्यतोऽपीति ॥ “भ्रः कुश्च' इति वक्तव्ये प्राक् प्रत्ययनिर्देशादित्याहुः । भ्रश्चेति प्रकृतिसंसृष्टेन चकारेण प्रकृत्यन्तरसमुचयाचेति बोध्यम् । पृभिदिव्यधिगृधि ॥ 'पुरुः प्राज्ये अभिधेयवत् । पुसि स्याद्देवलोके च नृत्यभेदपरागयो.' इति मेदिनी । सुषामेत्यादि । एतच न्यासाद्यनुरोधेनोक्तम् । वातककृता तु, स्थास्थन्स्थूनामुप सङ्खयातम् । “अपष्ठु पुसि बाले च वामे स्यादन्यलिङ्गके' इति मेदिनी । अर्जिदृशि ॥ अस्य ऋजिरादेश दृशेः पशिः । कमेस्तुगागम अम रोगगत्यादिषु अस्य धुगागमः । 'पशि नाशने ' । सोत्रो धातु । अस्य दीर्घ । “बाधृ लोडने ' । अस्य हादेशः । षड्भ्योऽपि कुप्रत्ययः स्यादित्यर्थ. । अविशेषेणेति ॥ वादिगणे तु पश्चिति पठितम् । “पशु दृश्यर्थमव्ययम्' इति धरणिः । कन्तुः कन्दर्प इति ॥ 'कन्तुर्मकराङ्कः