सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५४३
बालमनोरमा ।


प्रमोदितः साधु । * उदुपधात्' किम् । विदितम् । * भाव-' इत्यादि किम् । रुचितं कार्षापणम् । “सेट्’ किम् । कुष्टम् । * शब्विकरणेभ्य एवेष्यते' (वा ६२६) । नेह । गुध्यतेर्गुधितम् ।

३०५७ । निष्ठायां सेटि । (६-४-५२)

णेलोपः स्यात् । भावितः-भावितवान् । * श्रीदिनः-' (३०३९) इति नट् । सम्प्रसारणम् । २नः । दाप्तः । गुछू, गृढ । वनु, वत । तनु, ततः । पतेः सनि वेट्कत्वादिडभावे प्राप्त द्वितीया श्रित-' (सू ६८६) इति सूत्रे निपातनादिट् । पतितः । * सेऽसिचि ' (२५०६) इति वेट्कत्वात्सिद्धे कृन्त


आदिकर्मणि कर्तरि क्त उदुपधात्कि - । विदितमिति ॥ 'विद ज्ञाने' इति वेते. रूपम् गुध्यतेर्गुधितमिति । 'गुध परिवेष्टने' दिवादिस्सेट्क. । निष्ठायां सेटि ॥ णेलोपः स्यादिति ॥ शेषपूरणमिदम् । “णरनिटि' इत्यतो णेरिति “ आतो लोपः' इत्यस्मा छेोप इति चानुवर्तते इति भावः । अनिटीति निषेधादप्राप्से आरम्भ । 'टु ओ वि गतिवृच्द्योः अस्मात् ते आह । श्रवीदित इति नेडिति ॥ सम्प्रसारणमिति । यजादित्वादिति भावः । सम्प्रसारणे सति पूर्वरूपे 'हलः' इति दीर्घ * ओोदितश्च' इति निष्ठानत्वे रूपमाह । शशून इति । यद्यपि मूले 'ओदितश्च' इत्यत्र उच्छून इत्युदाहृतमेव, तथापि विशेषविवक्षया पुनरिहोपन्यास. । अत्र अल्विधित्वेऽपि हल इत्यारम्भसामथ्यांदेव पूर्वरूपस्य सम्प्रसारणत्वम् । नित्यत्वात्सम्प्रसारणपूर्वरूपय श्रयक किति' इत्येव निषेधसिद्धेः विग्रहण व्यर्थमिति वाच्यम् । “श्रयुकः किति' इत्यत्र “एकाच उपदेशे ' इत्यतः उपदेशे इत्यनुवृत्तेः । तथाच उपदेशे उगन्तत्वाभावात् निषेधाप्राप्तौ विग्रहणम् । अत एव स्तीत्र्वेत्यादौ उपदेशे उगन्तत्व मादाय इण्निषेधसिद्धिरित्यलम् । ईदित उदाहरति । दीप्त इति ॥ 'दीपी दीप्तौ' दिवादिः । ईदित्वात्रेट्। गूढ इति ॥ ऊदित्वेन वेट्कत्वात्'यस्य विभाषा' इति नेट्। ढत्वधत्वष्टत्वढलोपदीर्घा वनु, वतः । तनु, ततः इति ॥ 'उदितो वा' इति खाया वेट्कत्वात् “यस्य विभाषा इति नेट् । 'अनुदात्तोपदेश' इति नकारलीप । पतेस्सनीति ॥ ‘पत्ल गतौ' अस्य तनिपतिदरिद्राणामुपसङ्खयानम्' इति सनि वेट्कत्वात् “यस्य विभाषा' इति निष्ठायामि निषेधे प्राप्त इत्यर्थ. । पतितशब्दे इट साधयितु युक्तयन्तरमाह । सेऽसिचीति ॥ 'कृती छेदने' ‘वृती हिंसाग्रन्थनयोः' 'नृती गात्रविक्षेपे' एषामीदित्व ‘वीदित.' इति इण्निषेधार्थमिति वक्तव्यम् । ततु न सम्भवति । एषा 'सेऽसिचिकृतवृतछदतृदनृत.' इति सकारादौ वेट्कतय यस्य विभाषा' इत्येव निष्ठाया नित्यमिण्निषेधसिद्धे । ततश्च एषामीदत्करणात् “यस्य विभाषा' इति इण्निषेधस्य अनित्यत्व विज्ञायते । एवञ्च कृतादीना 'यस्य विभाषा' इति इण्निषेधस्य अभावसम्भावनाया 'श्रीदितः’ इति इग्निषेधार्थमीदित्वमर्थवत् । तथा च पतितशब्दे *यस्य विभाषा' इत्यनित्यत्वान्न भवतीत्यर्थः । तेनेति । “यस्य विभाषा