सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८८
[कृदन्तकृत्य
सिध्दान्तकौमुदीसहिता

२८७० । पदास्वैरिबाह्यापक्ष्येषु च । (३-१-११९)

अवगृह्य प्रगृह्य वा पदम् । अस्वैरी परतन्त्रः, गृह्यकाः शुकाः । पञ्जरादिबन्धनेन परतन्त्रीकृता इत्यर्थः । बाह्यायां ग्रामगृह्या सेना । ग्रामबहि भूतेत्यर्थः । स्त्रीलिङ्गनिर्देशात्पुन्नपुंसकयोर्न । पक्षे भवः पक्ष्यः । दिगादित्वाद्यत् । आयैर्गुह्यते आर्यगृह्यः । तत्पक्षाश्रित इत्यर्थः ।

२८७१ । विभाषा कृवृषोः । (३-१-१२०)

क्यप्स्यात् । कृत्यम् । दृष्यम् । पक्ष ।

२८७२ । ऋडहलेोण्यैत । (३-१-१२४)

ऋवर्णन्ताद्धलन्ताञ्च धातोण्यैत्स्यात् । कार्यम् । वष्र्यम् ।

२८७३ । युग्यं च पत्रे । (३-१-१२१)

पत्रं वाहनम् । युग्यो गौः । अत्र क्यप्कुत्वं च निपात्यते ।

२८७४ । अमावस्यद्न्य तरस्याम् । (३-१-१२२)

अमोपपदाद्वसेरधिकरणे ण्यत् । वृद्धौ सत्यां पाक्षिको ह्रस्वश्च निपात्यते । अमा सह वसताऽस्या चन्द्राकावमावास्या-अमावस्या । “ ऋएहलोण्येत् (सू २८७२) । *चजो :–' (सू २८६३) इति कुत्वम् । पाक्यम् । “पाणौ सृजेण्र्यद्वाच्य:’ (वा १९४६) । ऋदुपधलक्षणस्य क्यपोऽपवादः । पाणिभ्यां सृज्यते पाणिसग्र्या रज्जुः । *समवपूर्वाच' (वा १९४७) । समवसग्र्या ।


इत्यत आह । लोके त्विति ॥ पदास्वैरिबाह्यापक्ष्येषु च ॥ पद, अस्वैरि, बाह्या पक्ष्य, ५ष्वर्थेषु ग्रहेः क्यबित्यर्थः । अवगृहं प्रगृह्य वा पदमिति ॥ समस्तपदस्य अवान्तरपदविच्छेदः अवग्रहः । “ अप्रावेत्यादिपदामितिशिरस्क' प्रग्रहः इति प्रातिशाख्ये प्रसिद्धम् । 'इंदूदेद्दिवचन प्रगृह्यम्' इति सूत्रोदाहरणञ्च प्रगृह्यम् । विभाषा कृवृषो ।। पञ्चम्यर्थे षष्ठ । कृञ्जः ऋदन्तत्वात् निलय ण्यति प्राप्से, वृषेः ऋदुपधत्वात् नित्यं क्यपि प्राप्से च, क्यविकल्पोऽयम् । पक्षे इति ।। क्यबभावपक्षे विशेषेो वक्ष्यते इत्यर्थः । ऋहलो ण्येत् ॥ पञ्चम्यर्थे षष्ठी । तदाह । ऋवर्णान्तादिति । युग्यञ्च पत्त्रे ॥ क्यबन्तन्निपात्यते । ण्यतोऽपवादः । युग्यो गाररात ॥ शकटादिना योक्तव्य इत्यर्थः । क्यपि कुत्वनिपातनात् । पत्त्रं वाहनमिति । पतन्ति गच्छन्त्यनेनेत्यर्थे “दास्रीशस' इत्यादिना करणे छून्। ण्यति तु योग्यमिति स्यात् । अमावस्यद । अधिकरणे इति । निपातनलभ्यमिदम् । अमेत्यस्य विवरणम् । सहेति । “ऋहलोण्येत्' इत्यनुपदमेव प्राक् प्रसङ्गाद्याख्यातमपि सूत्रक्रमात् पुनरुपात्तम् । कुत्वमिति ॥ पचेण्यैति ‘चजो.’ इति कुत्वमिति भावः । ननु पाणौ सृजण्र्यदिति व्यर्थम् । 'ऋहलोः' इत्येव सिद्धेरित्यत आह । ऋदुपधलक्षणस्येति ॥ 'ऋदुपधाचाक्लपि वृतेः’ इति ण्यदपवादस्य क्यपो बाधनार्थमित्यर्थः । पाणिसग्र्या रज्जुरिति ॥ ण्यति